________________
२७८
अनगारधर्मामृते
आत्मैव । किंविशिष्टः ? आत्मजः पुत्रः । कस्य ? मम । किंविशिष्टो यतः ? सदा सर्वदा सुविधिना सम्यग्विहिताचरणेन उद्धर्ता संसारार्णवादुत्तारकः ।
पुत्रिकामूढात्मनां खार्थभ्रंशं सखेदमावेदयतिमात्रादीनामदृष्टद्रुघणहतिरिवाभाति यजन्मवार्ता सौस्थ्यं यत्संप्रदाने कंचिदपि न भवत्यन्वहं दुर्भगेव । या दुःशीलाऽफला वा स्खलति हृदि मृते विप्लुते वा धवेऽन्त, यो दन्दग्धीह मुग्धा दुहितरि सुतवद् घनन्ति धिक् स्वार्थमन्धाः __ यस्या दुहितुर्जन्मवार्ता पुत्री जातेति जनश्रुतिराभात्याभासते । केव ? अदृष्टद्रुघणहतिरिवादृष्टमुद्राघातो यथा । केषाम् ? मा. त्रादीनां जननीजनकादीनाम् । तथा यस्या दुहितुः संप्रदाने कचिदपि कुलशीलविद्यावित्तादिना तरतमभावेन चर्च्यमाने वरयितरि । न भवति । किं तत् ? सौस्थ्यम् । केषाम् ? मात्रादीनाम् । योग्यस्थानेस्माभिः स्वकन्या नियुज्यते इति सुस्थितं मात्रादीनां चित्तं न भवतीत्यर्थः। सम्यक् शास्त्रोक्तविधानेन प्रकर्षेण खजनवैमनस्यभावलक्षणेन दीयतेऽस्मै कन्येति संप्रदानमत्र वरयिता । तथा या दुःशीला दुराचारा अफला वा निरपत्या सती मात्रादीनां हृदि हृदये अन्वहमनुदिनं स्खलति शल्यति । केव? दुर्भगेव । यथा भर्तुरनभिप्रेता सती पुत्री हृदये शल्यति तथा दुश्वारिणी निरपत्या वेत्यर्थः । तथा या दुहिता दन्दग्धि गर्हितं दहति । क ? अन्तरध्यात्म मात्रादीनाम् । क सति ? धवे भर्तरि । किंविशिष्टे मृते लोकान्तरं गते, विप्लुते पुरुषार्थसाधनसा. मर्थ्यपरिभ्रष्टे दूरदेशान्तरं गते वा इहास्यामीदृशदुःखदाननिदानभूतायां दुहितरि पुत्र्यां मुग्धा मूढा ममत्वग्रहाविष्टाः सन्तोऽन्धास्तत्वमपश्यन्तः पुरुषाः स्वार्थ स्वेनात्मनाय॑मानं दुःखोच्छेदं सुखोपलम्भं वा घ्नन्ति प्रतिबन्धन्ति । कस्मिन्निव ? सुतवत् । यथा पुत्रे मुग्धास्तथा पुश्यामपी. त्यर्थः । धिक् इति खेदे । कष्टमेतत् । अज्ञानविजृम्भितमित्यर्थः ॥ १६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org