SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः। तथा यः शल्यति शरीरान्तःप्रविष्टकाण्ड इवाचरति । किं कुर्वन् ? भवन संपद्यमानः । किंविशिष्टः ? मूर्योऽज्ञः । यल्लोकः अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् । यतस्तौ स्वल्पदुःखाय यावजीवं जडो भवेत् ॥ पापो वा भवन् ब्रह्महत्त्यापरदाराभिगमनादिपातकयुक्तः सन् , विपद्वान्वा व्याधिबन्दिग्रहादि विपत्तिपतितः, उपकृतिकृपणो वा असामादविवेकाद्वाऽनुपकारकः । पुने सांसिद्धिकौपाधिकभ्रान्त्यपसारणेन परमार्थवर्मनि शिवार्थिन स्थापयितुमाहयो वामस्य विधेः प्रतिष्कशतयाऽऽस्कन्दन् पितृञ्जीवतो,प्युन्मथ्नाति स तर्पयिष्यति मृतान्पिण्डप्रदायैः किल । इत्येषा जनुषान्धतार्य सहजाहार्याथ हायर्या त्वया, स्फार्यात्मैव ममात्मजः सुविधिनोद्धर्ता सदेत्येव दृक् ॥११५।। यः पुत्रः पितॄन् पितृपितामहादीन् जीवतोपि विद्यमानानपि उन्मथ्नाति शुद्धचैतन्यलक्षणैः प्राणैर्वियोजयति । किंकुर्वन् ? आस्कन्दन दुष्कृतोदीरणतीबमोहोत्पादनद्वारेण कदर्थयन् । कया ? प्रतिष्कशतया सहकारिभावेन । कस्य ? वामस्य विधेर्बाधकस्य देवस्य शास्त्राविरुद्धस्याचारस्य वा । पुत्रो ह्यविनीतो दुःखदानोन्मुखदुष्कृतस्योदीरणाया निमित्तं स्याद् । विनीतोपि स्वविषयमोहग्रहावेशनेन परलोकविरुद्धाचरणविधानस्य । स तथाभूतोपि पुत्रः किल तर्पयिष्यति प्रीणयिष्यति पितॄन् । किंविष्टान् ? मृतान् प्रेतत्वमापन्नान् । कैः ? पिण्डप्रदाद्यैः पिण्डप्रदानजलतर्पणर्णशोधनादिभिः । प्रदानं प्रदा “ आतश्चोपसर्गे" इत्यङ् । किलेत्यागमोक्तौ लोकोक्तो वा इत्येवंस्वरूपा एषा वर्तमाना जनुषान्धता जात्यन्धत्वं हे आर्य, साधो हार्या अपनेतव्या । केन ? त्वया। कीदृशी ? सहजा नैसर्गिकी आहार्याथ दुरुपदेशादिजाता वा । तथा स्फार्या स्फुरन्ती कार्या त्वया । कासौ ? हा दृष्टिः । कीदृशी ? इत्येव इत्थंभूतैव वर्तते । कोसौ ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy