SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २७६ अनगारधर्मामृते सोपि तत्ताहगपराधप्रधानोपि पुत्रः पशुभिहव्यवहारमूढेहिभिः स्वेनात्मना सह युज्यते संबध्यते । स्वस्मादभेदेन दृश्यते इत्यर्थः । कथम्। इति इत्थम् । अयमिदन्तया प्रतीयमानस्त्वमसि । किमात्मा ? आत्मा अहंतया प्रतीयमानो भावः । किनामा ? पुत्रनामा । पुत्र इति नाम यस्य स एवम् । नाम्नैव मत्तो भिन्नोसि, न स्वरूपेणेत्यर्थः । कथम् ? वै स्फु. टम् । तथाच जातकर्मणि पठन्ति अङ्गादङ्गात्प्रभवसि हृदयादपि जायसे । आत्मा वै पुत्रनामासि संजीव शरदः शतम् ॥ मनुस्त्विदमाह पतिर्भार्या संप्रविश्य गर्भो भूत्त्वेह जायते । जायायास्तद्धि जायात्वं यदस्यां जायते पुनः॥ यः किम् ? यो न्यक्करोति हासयति । कम् ? त्रिवर्ग धर्मार्थकामान् । किं कुर्वन् ? विगुणयन् सौष्ठवसौन्दर्यादिगुणरहितां विकूलां वा कुर्वन् । काम् ? पत्नी भार्याम् । कथम् ? प्रभृत्यारभ्य । कस्मात् ? गर्भभावात् । निगीर्णशुक्रार्तवो जीवो गर्भः । तदुक्तम् शुद्धे शुक्रातः सत्त्वः स्वकर्मक्लेशचोदितः। गर्भः संपद्यते युक्तिवशादग्निरिवारणौ ॥ भवनं भावः स्वरूपस्वीकारः । गर्भस्य भावो गर्भभावस्तस्मात् । तथा यः प्रायो बाहुल्ये तरुणिमनि यौवने वतुः पितुः प्रतापं तेजो हिनस्ति हन्ति । किं कुर्वाणः ? आददानः स्वीकुर्वन् । किं तत् ? धनं ग्रामसुवर्णादि । तथा च पठन्ति जाओ हरइ कलत्तं वहृतो वडिमा हरइ । अत्थं हरइ समत्थो पुत्तसमो वेरिओ णत्थि ॥ १ जातो हरति कलत्रं वर्धमानो वृद्धिम् । अर्थ हरति समर्थः पुत्रसमो वैरिको नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy