SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ २८ अनगारधर्मामृते विपर्यस्तस्य प्रतिपाद्यत्वे दोषं दर्शयतियत्र मुष्णाति वा शुद्धिच्छायां पुष्णाति वा तमः । गुरूक्तिज्योतिरुन्मीलत् कस्तत्रोन्मीलयेद्गिरम् ॥२१॥ कः समीक्ष्यकारी उन्मीलयेदुन्मुद्रयेत् । ब्रूयादित्यर्थः । काम् ? गिरं वाचम् । क ? तत्र तस्मिन् विपर्यस्ते पुंसि । न कश्चित्तं प्रत्युपदेशं कुर्यादिदित्यर्थः । यत्र किम् ? यत्र यस्मिनुन्मीलदुद्घाटं गच्छद् गुरूक्तिज्योतिर्गुरुवचनज्ञानं कर्तृ । मुष्णाति वा हरति । काम् ? शुद्धिच्छायाम् अल्पा. मभ्रान्तं वा चित्तप्रसत्तिम् । पुष्णाति वा वर्धयति । किं तत् ? तमो विपरीताभिनिवेशम् । वाशब्दौ परस्परसमुच्चये ॥ एवं प्रतिपादकप्रतिपाद्यौ प्रतिपाद्य तत्प्रवृत्त्यङ्गतया सिद्धं धर्मफलं निर्दिशति सुखं दुःखनिवृत्तिश्च पुरुषार्थावुभौ स्मृतौ । धर्मस्तत्कारणं सम्यक् सर्वेषामविगानतः ॥ २२ ॥ स्मृतौ पूर्वाचार्यैराम्नातौ । कौ ? पुरुषार्थों । किंसंख्यौ ? उभौ । कौ तौ ? सुखं दुःखनिवृत्तिश्चेति द्वावेव सुखाद् दुःख निवृत्तेश्चातिरिक्तस्य सर्वपुरुषाणामभिलाषाऽविषयत्वात् । तथा स्मृतम् । किं तत् ? तत्कारणं तयोः सुखदुःखनिवृत्त्योः पुरुषार्थयोजनकं धर्मः। किंविशिष्टः ? सम्यगविपरीतः। कस्मात् ? अविगानतः अविप्रतिपत्तेः । केषाम् ? सर्वेषां लौकिकपरीक्षकाणाम्॥ कमेवार्थ प्रपञ्चयितुं मुख्यफलसंपादनपरस्य धर्मस्यानुषङ्गिकफलसर्वस्वमभिनन्दति येन मुक्तिश्रिये पुंसि वास्यमाने जगच्छ्रियः। स्वयं रज्यन्त्ययं धर्मः केन वयॊनुभावतः ॥ २३ ॥ केन न केनापि ब्रह्मणा वा वयो व्याख्यातुं शक्यः । कोसौ ? अय. मसौ धर्मः। कस्मात् ? अनुभावतः प्रभावं कार्य वाश्रित्य । येन किम् ? येन मुक्तिश्रियेऽनन्तज्ञानादिसंपदर्थं वास्यमानेऽनुरज्यमाने आश्रीयमाणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy