________________
प्रथमोऽध्यायः।
२७
योऽज्ञातधर्ममाहात्म्यो यथा लाभपूजादिप्रलोभनप्रकारेण शृणोति धर्म स तथैव तेनैव प्रकारेणानुवृत्त्योनुगम्यो, न दूष्यः । अत्र निदर्शनमाह-किं नानुमोद्यते साधु करोतीति किं नानुमन्यतेऽपि त्वनुमोद्यत एव । कोसौ ? बालः शिशुः । कैः ? मात्रादिभिरिति शेषः । किं कुर्वन् ? भजन सेवमानः । किं तत् ? पथ्यं व्याधिहरं कटुतिक्तादिद्रव्यम् । कथम् ? अपथ्येन द्राक्षाशर्करादिना सह ॥ विनयफलं दर्शयतिवृद्धेष्वनुद्धताचारो ना महिम्नानुबध्यते । कुलशैलाननुत्क्रामन् सरिद्भिः पूर्यतेर्णवः ॥ १९ ॥
अनुबध्यते नित्यमधिष्ठीयते । कोसौ ? ना पुरुषः । केन ? महिना लोकोत्तरानुभावेन । किंविशिष्टः सन् ? अनुद्धताचारो नीचराचरणपरः । विनीत इत्यर्थः । केषु ? वृद्धेषु तपःश्रुतादिज्येष्टेषु । अथवा न अमहिन्नासुबध्यते । किं तर्हि ? माहात्म्येनैव । अत्र समर्थनमाह-कुलेत्यादि । पूर्यते भ्रियते । कोसौ ? अर्णवः समुद्रः । काभिः ? सरिद्भिर्गङ्गादि नदीभिः । किं कुर्वन् ? अनुत्क्रामन् अनुल्लच्य वर्तमानः । कान् ? कुलशलान् एकद्विचतुर्योजनशतोच्छ्रितान् हिमवदादीन् । ___ व्युत्पन्नस्याप्रतिपाद्यत्वं दृष्टान्तेन समर्थयतेयो यद्विजानाति स तन्न शिष्यो यो वान यष्टि स तन्न लम्भ्यः। को दीपयेद्धामनिधि हि दीपैः कः पूरयेद्वाम्बुनिधि पयोभिः।। ___ यः पुरुषो यद् व्युत्पाद्यं वस्तु विजानाति विशेषेण वेत्तिस न शिष्यो न व्युत्पादनीयः । किं तत् ? तत् । यो वा यद वस्तु न वष्टि न कामयते स न लम्भ्यो न प्राप्यः । किं तत् ? तत् । तेनानभिलष्यमाणेन वस्तुना न योज्य इत्यर्थः । अत्र क्रमेण दृष्टान्तावाचठे-हि यस्मात् को दीपयेत् । न कश्चित् प्रकाशयेदित्यर्थः । कम् ? धामनिधि सूर्यम् । कैः ? दीपैः । को वा पूरयेत् । न कश्चिद्विभृयादित्यर्थः । कम् ? अम्बुनिधि समुद्रम् । कैः ? पयोभिर्जतैः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org