________________
अनगारधर्मामृते
अत्र दृष्टान्तमाह-इव यथा व्यनक्ति । कासौ ? हक। किं तत् ? मुखं वदनम् । अर्थाद् दृष्टिरेव । किंविशिष्टा सती ? संस्कृता । केन ? दर्पणेनादशेन । किंविशिष्टमपि ? अदृष्टमपि स्वयं द्रष्टुमशक्यमपि ॥ श्रोतॄणां चातुर्विध्याद् द्वयोरेव प्रतिपाद्यत्वं दृढयतिअव्युत्पन्नमनुप्रविश्य तदभिप्रायं प्रलोभ्यायलं, कारुण्यात्प्रतिपादयन्ति सुधियो धर्म सदा शर्मदम् । संदिग्धं पुनरन्तमेत्य विनयात्पृच्छन्तमिच्छावशा, न व्युत्पन्नविपर्ययाकुलमती व्युत्पत्त्यनर्थित्वतः ॥ १७ ॥ प्रतिपादयन्ति शासति । के ते ? सुधियः सूरयः । कम् ? अव्युत्पन्नमज्ञातधर्मस्वरूपं पुरुषम् । कम् ? धर्मम् । किंविशिष्टम् ? शर्मदं सुखदम् । कथम् ? सदा । कस्मात् ? कारुण्यात् कृपातः । कथम् ? अलं पर्याप्तम् । किं कृत्वा ? प्रलोभ्यापि लाभपूजादिना धर्मश्रवणे प्रलोभनामप्युत्पाद्य । किं कृत्वा ? अनुप्रविश्य अनुवर्त्य । कम् ? तदभिप्रायं तस्याऽव्युत्पन्नस्य श्रोतुराशयम् । पुनर्विशेषेण धर्म प्रतिपादयन्ति सुधियः । कम् ? संदिग्धं धर्मे संशयमापन्नं पुरुषम् । किं कुर्वन्तम् ? प्रच्छन्तम् । किमयमित्थं भवत्यन्यथा वेत्यनुयुआनम् । कस्मात् ? इच्छावशात् तद्युत्पत्तिवान्छानुरोधात् । किं कृत्वा ? एत्य आगत्य । कम् ? अन्तं समीपम् । कस्मात् ? विनयात् । औद्धत्यं परिहत्येत्यर्थः । न पुनः सुधियो धर्म प्रतिपादयन्ति । को ? व्युत्पन्नविपर्ययाकुलमती । विपर्ययेण विपरीतज्ञानेनाकुला दुष्टा मतिर्यस्यासौ विपर्ययाकुलमतिः । उक्तार्थान्यथासमर्थनकृतनिर्बन्धो विपर्यस्त इत्यर्थः । व्युत्पन्नश्च विपर्ययाकुलमतिश्चेति द्वन्द्वः । कस्मात् ? व्युत्पत्त्यनार्थित्वतो धर्मव्युत्पत्त्या मात्सर्यात् । एतेऽव्युत्पन्नः संदिग्धो व्युत्पन्चो विपर्यस्तश्चेति चत्वारः श्रोतारः ।।
ननु दृष्टफलाभिलाषदूषितमतिः कथं प्रतिपाद्य इत्याशङ्कां दृष्टान्तावष्टम्भेन निराचष्टे
यः शृणोति यथा धर्ममनुवृत्यस्तथैव सः। भजन् पथ्यमपथ्येन बालः किं नानुमोद्यते ।। १८ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org