________________
प्रथमोऽध्यायः।
धारयति संविदति चेत्यर्थः । तथा य ऊहते व्याया तथाविधान् वितर्कयति । यदित्थं स्थिरकार्यकृत् तदित्थं सर्वत्र सर्वदेत्यादिरूपतया क्रोडीकरोतीत्यर्थः । कान् ? अन्यान् अविज्ञातानर्थान् । कस्मात् ? ततस्तं विज्ञातमथैमाश्रित्य । तथा योऽपोहते च उक्तियुक्तिभ्यां विरुद्धानर्थान् प्रत्यवायसंभावनया व्यावर्तयति । कान् ? अन्यान् प्रमाणबाधितानर्थान् अश्रद्धेयतया प्रतिक्षिपतीत्यर्थः । तथा य आवहति करोति च। कम् ? तत्तत्त्वाभिनिवेशम् । तस्य प्रवचनार्थस्य तत्त्वं हेयत्वेनोपादेयत्वेनोपेक्षणीयत्वेन च व्यवस्थितं रूपं तत्तत्त्वम् । तस्याभिनिवेशो निर्बन्धस्तत्तरवाभिनिवेशस्तम् ॥ एवंविधप्रज्ञस्यापि सदुपदेशं विना धर्मे प्रज्ञा न क्रमते इत्याचष्टेमहामोहतमश्छन्नं श्रेयोमार्ग न पश्यति । विपुलापि दृगालोकादिव श्रुत्या विना मतिः॥१५॥ न पश्यति नावलोकयति । कासौ ? मतिर्बुद्धिः । कम् ? श्रेयोमागम् । किंविशिष्टम् ? महामोहतमश्छन्नं महामोहस्तमोन्धकारमिव पदार्थप्रच्छादकत्वात् । तेन छन्नं छादितम् । कथम् ? विना। कस्याः ? श्रुत्याः धर्मश्रवणात् । श्रुत्वा धर्म विजानातीति विधानात् । किंविशिष्टापि ? विपुलापि महत्यपि । केव ? दृगेव यथा दृक् चक्षुर्न पश्यति । कम् ? श्रेयोमार्ग प्रशस्तपथम् । किंविशिष्टापि ? विपुलापि विस्फारितापि । कथम् ? विना। कस्मात् ? आलोकात् प्रदीपादिप्रकाशात् ॥ शास्त्रसंस्कारान्मतेः परिच्छेदातिशयं शंसतिदृष्टमात्रपरिच्छेत्री मतिः शास्त्रेण संस्कृता । व्यनक्त्यदृष्टमप्यर्थं दपणेनेव दृसुखम् ॥ १६ ।। व्यनक्ति प्रकाशयति । कासौ ? मतिरिन्द्रियानिन्द्रियनिमित्तमवग्रहादिज्ञानम् । कमर्थ । किंविशिष्टम् ? अष्टमपि इन्द्रियानिन्दियेहीतुमशक्यमपि । किंविशिष्टा सती ? संस्कृता आहितातिशया । केन ? शास्त्रेण आप्तवचनादिजन्मना दृष्टादृष्टार्थज्ञानेन । किंविशिष्टा सती मतिः ? दृष्टमा. त्रपरिच्छेत्री दृष्टमिन्द्रियानिन्द्रियपरिच्छेदनयोग्यं वस्तु । दृष्टमेव दृष्टमात्रम् । तत्परिच्छेत्री परिच्छेदनशीला । दृष्टमात्रमवगन्तुं शक्तेत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org