________________
२४
अनगारधर्मामृते
संविदे अर्थे हेय उपादेये च विषये सङ्गता अन्तर्बोधनीयता विद् ज्ञानं, तस्मै । कस्य ? मन्दस्य अशक्यसम्यग्दर्शनादिपाटवस्य सदा मिथ्यात्वरोगितस्य । अभव्यस्येत्यर्थः । कथं कृत उपदेशः ? बहुशो बहून्वारान् । किं पुनः सकृविवेत्यपि शब्दार्थः। युक्तं चैतत् , हि यस्मात् केनोपायेन कया सामय्या भवति । न केनापीत्यर्थः । कोसौ ? अन्धपाषाणो विभक्तुमशक्यकाञ्चनोऽश्मा । किं तत् ? काञ्चनं सुवर्णम् ॥ भव्योपीदृश एव प्रतिपाद्यः स्यादित्याहश्रोतुं वाञ्छति यः सदा प्रवचनं प्रोक्तं शृणोत्यादराद्, गृह्णाति प्रयतस्तदर्थमचलं तं धारयत्यात्मवत् । तद्विद्यैः सह संविदत्यपि ततोन्यांचोहतेऽपोहते, तत्तत्त्वाभिनिवेशमावहति च ज्ञाप्यः स धर्म सुधीः ॥१४॥ अत्र शुश्रूषाश्रवणग्रहणधारणविज्ञानोहापोहतत्त्वाभिनिवेशा अष्टौ बुद्धिगुणाः क्रमेणोक्ताः प्रतिपत्तव्याः । ज्ञाप्यः प्रतिपाद्यः । कोसौ ? स सुधीः शोभना समीचीना सम्यक्त्वसनाथा धीनिं यस्यासौ सुधी/धन इत्यर्थः । कं ज्ञाप्यः ? धर्मम् । यः किं किं करोतीत्याह-यो वाञ्छति इच्छति । किं कर्तुम् ? श्रोतुमाकर्णयितुम् । किं तत् ? प्रवचनं प्रकृष्टं दृष्टेष्टप्रमाणाभ्यामविरुद्धं वचनं सर्वमनेकान्तात्मकमित्यादिवाक्यम् । जिनागममित्यर्थः । कथम् ? सदा नित्यम् । तथा यः शृणोत्याकर्णयति । किं तत् ? प्रवचनम्। किंविशिष्टम् ? प्रोक्तं गुरुनिह्नवाकारिश्रेयोर्थिभिः प्रवक्तमारब्धम्। कस्मात् ? आदरात् । तथा यो गृह्णाति निश्चिनोति ।कम् ? तदर्थ तस्य प्रवचनस्याभिधेयम् । किंविशिष्टः सन् ? प्रयतः प्रयत्नपरः । तथा यो धारयति स्मृत्यावष्टभ्नाति । कम् ? तं प्रयत्नाद्गृहीतं तदर्थम् । कथं कृत्वा ? अचलं स्थिरं जन्मान्तरेपि वर्तमानसंस्कारं कृत्वा । किंवत् ? आत्मवद् आत्मना तुल्यं, शश्वदसह्यवियोगत्वात् । तथा यः संविदति मोहसंदेहविपर्यासव्युदासेनाध्यवस्यति । कम् ? तं तथा गृहीतं धारितं तदर्थं तैः सह मिलित्वा । कैः ? तद्विद्यैः सा तत्प्रवचनलक्षणा विद्या येषां त एवं, तद्विद्यसंवादस्य बुद्धिसंवर्द्धनानां प्रधानत्वात् । अपिः समुच्चये । न केवलं तं तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org