________________
प्रथमोऽध्यायः।
२३
पर्युपर्यास्वादयति निवृतो मुक्तात्मा व्यापारान्तरनिवृत्तश्च सुखसुधां शर्मामृतम् आत्यान्तिकीमनन्तकालभाविनीम् अरं झटिति सदुपदेशश्रवणानन्तरमेव सन्त आसन्नभव्याः प्रतियन्ति तथेति प्रतिपत्तिगोचरं कुर्वन्ति । तथा चोक्तम्
जेण वियाणदि सव्वं पिच्छदि सो तेण सोक्खमणुहवदि । इदि तं जाणदि भविओ अभवियसंतोण सद्दहदि ॥ इति ॥ अथ समन्वयःयद्यपि वर्तन्ते । के ? ते सन्तः । किंविशिष्टाः ? विरलाः कतिपये क्वचित्कदाचिल्लभ्याः । व ? अद्य अस्मिन् पञ्चमकाले तथापि देश्यमिति गत्वा संबन्धः कर्तव्यः । ते के ? ये सन्तः प्रतियन्ति । कथम् ? अरम् । किम् ? इति एवंरूपं वस्तु । तदेव दयते । चति । कोसौ ? निर्वृतः । काम् ? सुखसुधाम् । किंविशिष्टाम् ? आत्यन्तिकीम् । किंविशिष्टः सन् ? स्वस्थः। किं कुर्वन् ? पश्यन् । किं तत् ? संसृतिनाटकम । किंविशिटम् ? स्फुटरसमाग्भारकिमीरितम् । अयमों-यथा प्रेक्षकजनःस्फुटरसप्रारभारकिर्मीरितं नाटकं पश्यन्नविच्छिन्नसान्द्रानन्दनिरातङ्कः सन्ननुभवति तथा मुक्तात्मा तथाभूतं संसारं पश्यन् । इति ये भव्यात्मानः श्रद्दधते तेत्रेदानी दुर्लभा एव । यद्यप्येवं वर्तते तथापि देश्यं प्रतिपाद्यं तत्त्वं परहित. प्रतिपादनैककाराचायः । किं कदाचित् ? नेत्याह-सदा सर्वदा । कुतो हेतोः ? इति अस्मात् । यतः श्रयेत् प्रतिपद्येत । कोसौ ? कोपि कश्चिगव्यः । किं तत् ? हितम् । क ? काले। किंविशिष्टे ? क्वचिदनियते । किं स्वतः शुश्रूषायां सत्यां देश्यमुतान्यथापीत्याह-किं कृत्त्वा? उत्पाद्यापि। काम् ? शुश्रूषुताम् । शुश्रूषोहितं श्रोतुमिच्छोर्भावः शुश्रूषुता, ताम् । न केवलं सहजहितश्रवणेच्छायां सत्यां तद्देश्यं यावत्तामुत्पाद्यापीत्यपिशब्दार्थः ।। अभव्यस्याप्रतिपाद्यत्वे हेतुमुपन्यस्यति-- बहुशोप्युपदेशः स्यान्न मन्दस्यार्थसंविदे। भवति ह्यन्धपाषाणः केनोपायेन काञ्चनम् ॥ १३ ॥ न स्यान्न भवेत् । कोसौ ? उपदेश आप्तशिक्षावचनम् । कस्यै ? अर्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org