________________
अनगारधर्मामृते
तथा तेनार्ककीर्तिमहाहवादिकरणप्रकारेण पूर्वानुरागविप्रलम्भद्वारेण । दुःखोत्पादकत्वकथनमिदम् । तथाऽनयत् प्रापयतिस । कासौ ? श्रीमती वज्रदन्तचक्रवर्तिपुत्री । कम् ? वज्रजङ्ख वज्रजङ्घाख्यं स्वपतिम् । काम् ? दुम॒तिम् । केशवासनधूपधूमव्याकुलकण्ठतया दुष्टा मृतिर्मरणम् । किंविशिष्टं सन्तम् ? भोगालसं विषयैः कुशलेष्वसमाहितम् । कथम् ? स्वमनु आत्मना सह । द्वावपि कुशलेष्वनवहितावित्यर्थः । एतत्संभोगमुखेन दुःखोत्पादकत्वाभिधानम् । एषा पूर्वा च कथा महापुराणाच्चिन्त्या। तथा सीता मैथिली रामं दाशरथिमतापयत् संतापयति स । कैः ? मानेत्यादि । मानः प्रणयभङ्गकलहः । असहो युध्यमानलक्ष्मणपराजयनिवारणाय तं प्रति रामप्रेषणदुरभिनिवेशः। विप्रयोगो रावणकृतो विरहः । समरः संग्रामः । अनाचारशङ्का लकेश्वरोपभोगसंभावना । आदिशब्दाद्दिव्यशुद्ध्युत्तरकाले रामस्यापमाननं तपस्यतश्चोपसर्गकरणमित्यादिग्रहणम् । मान. श्वासदहश्च विप्रयोगश्च समरश्चानाचारशङ्का च । ताः पञ्चादयो येषां तापनक्रियालाधनानां तानि तथोक्तानि । एतन्मानप्रवासविप्रलम्भमुखेन दुःखोत्पादकत्वप्रकाशनम् । तथा हा कष्टं, द्रौपदी पञ्चालराजपुत्री क्व कस्यां आपदि स्वयंवरामण्डपयुद्धादिव्यसनावर्ते पतिमर्जुनाख्यं स्वप्रियं न आस न चिक्षेप । सर्वस्यामापदि तथाविधायामपातयदित्यर्थः । अथवा सा प्रसिद्धा द्रौपदीति व्याख्येयम् । तत्रापातयदिति क्रियापदं सामर्थ्यलब्धं योज्यम् । यथा
"यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा।
यश्चैनं गंधमाल्याभ्यां सर्वस्य कटुरेव सः॥" इत्यत्र च्छिनत्ति सिञ्चति पूजयतीति पदानि । एतत्पूर्वानुरागप्रवासविप्रल. म्भमुखेन दुःखोल्पादकत्वख्यापनम् । एषा कथा भारतात् पूर्वा च रामायणाचिन्त्या।
वल्लभाया दूरक्षत्वशीलभङ्गसद्गुरुसङ्गान्तरायहेतुत्वपरलोकोद्योगप्रतिबन्धकत्वकथनद्वारेण मुमुक्षूणां प्रागेवापरिग्राह्यत्वं व्यनक्तितैरश्वोपि वधं प्रदूषयति पुंयोगस्तथेति प्रिया,सामीप्याय तुजेप्यऽसूयति सदा तद्विप्लवे दूयते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org