________________
चतुर्थोऽध्यायः ।
२७३
र्ष्याप्रभवमानशृङ्गारं प्रवासं च । किंविशिष्टम् ? क्षेपेत्यादि । क्षेपो धिक्कारोsवज्ञानादरः शुक शोक इच्छाविहतिरिष्टविधातो विलपनं परिदेवनम् । क्षेपश्चावज्ञा च शुक् चेच्छाविहतिश्च विलपनं च । तान्यादयो येषामुत्कण्ठादीनां तानि क्षेपादीनि दुःखकारणानि । तैरुग्रमसह्यम् । तत्र विलपनं रामस्य यथा
1
स्निग्धाः श्यामलकान्तिलिप्त वियतो वेल्लद्वलाका घना, वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोस्मि सर्व सहे, वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥
अपि च
हारो नारोपितः कण्ठे स्पर्शविच्छेदभीरुणा । इदानीमन्तरे जाताः पर्वताः सरितो द्रुमाः ॥
एवमन्यदपि लक्ष्यं महाकविप्रबन्धेषु यथायथं दृष्टव्यम् । तथा या भार्या नरं कुरुते । किंविशिष्टम् ? प्राज्यागन्त्वामिषादामिषमपि । आमिषं मांसमदन्त्यामिषादा राक्षसाः । प्राज्याः प्रचुरा आगन्तवः शत्रुप्रहारादयो दुःखप्रकाराः प्राज्यागन्तवः । त एवामिषादाः । तेषामामिषं ग्रासं विषयं वा ॥ १११ ॥
पूर्वानुरागादिशृङ्गारद्वारेण स्त्रीणां पुंस्पीडकत्वं यथाक्रमं दृष्टान्तेषु स्पष्ट
यन्नाह
स्वासङ्गेन सुलोचना जयमघाम्भोधौ तथाऽवर्तयत्, स्वं श्रीमत्यनु वज्रजङ्घमऽनयद्भोगालसं दुर्मृतिम् । मानासग्रहविप्रयोगसमरानाचारशङ्कादिभिः, सीताराममतापयत्क न पतिं हा साऽऽपदि द्रौपदी ॥ ११२ ॥
आवर्तयद् भ्रामयति स्म । कासौ ? सुलोचना अकम्पनराजाङ्गजा । कम् ? जयं मेघेश्वरम् । क्क ? अघाम्भोधौ । दुःखांहोव्यसनेष्वधम् । व्यसनार्णचे इत्यर्थः । केन ? स्वासङ्गेन स्वरूपासक्त्या । कथं कृत्वा ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org