SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २७२ अनगारधर्मामृते क्षेपावज्ञाशुगिच्छाविहतिविलपनाद्युग्रमन्तदुनोति, प्राज्या गन्त्वा मिषादामिषमयि कुरुते सापि भार्याऽहहार्या ॥ अहह अद्भुतं कष्टं वा, सापि तत्तागू दुःखहेतुरपि भार्या पत्नी भवति । किं विशिष्टा ? आर्या अर्यते गम्यते गुणवत्तयाश्रियते इत्यार्या । कामान्धानां सेव्येत्यर्थः । अथवा अहेति खेदे । सापि भार्या भवति । किंविशिष्टा ? हार्या अनुरञ्जनीया कामिनामित्यर्थः । तथा चोक्तम् वाग्मी सामप्रवणश्चाटुभिराराधयेन्नरो नारीम्। तत्कामिनां महीयो यस्माच्छृङ्गारसर्वस्वम् ॥ या किम् ? या भार्या रुजति संतापयति । कम् ? नरम् । किं कृत्वा ? प्रक्षोभ्य प्रकर्षेण चित्तचालं नीत्वा । कस्मात् ? आलोकमात्रादपि स्वरू. पदर्शनमात्रेणैव । पूर्वानुरागद्वारेण दुःखापादकत्वोक्तिरियम् । तल्लक्षणं यथा स्त्रीपुंसयोर्नवालोकादेवोल्लसितरागयोः। ज्ञेयः पूर्वानुरागोयमपूर्णस्पृहयोदशोः ॥ विप्रलम्भभेदोयम् । यथाह पूर्वानुरागमानात्मप्रवासकरुणात्मकः। निप्रलम्भश्चतुर्धा स्यात् पूर्वपूर्वो ह्ययं गुरुः ॥ तथा या भार्या नरं कृशयति कृशीकरोति । कैः ? प्राणैर्बलेन्द्रियायुरुच्छ्वासलक्षणैः । किं कृत्वा ? अनुरंज्य अनुरागं नीत्वा । कया ? अनुवृत्त्या छन्दानुवर्तनेन । कथं कृत्वा ? स्वार्थापकर्ष धर्मादिपुरुषार्थात्प्र. च्याव्य । एतत्संभोगमुखेन बाधकत्वमुक्तम् । कामिन्यो हि रहसि यथारुचि कामुकाननुवृत्त्य यथेष्टं चेष्टयंति । तदुक्तम् यद्यदेव रुरुचे रुचितेभ्यः सुभुवो रहसि तत्तदकुर्वन् । आनुकूलिकतया हि नराणामाक्षिपन्ति हृदयानि रमण्यः ॥ तथा या भार्या नरं बहुशः प्रभूतं कृत्वा अन्तरऽध्यात्म दुनोत्युपत. पति । किं कुर्वती ? तन्वती दीर्घाकुर्वती । कम् ? विप्रलम्भं प्रणयभङ्गे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy