________________
चतुर्थोऽध्यायः।
२७१
वचनयुक्त्या वेदवाक्ययोजनेन । विवाहकाले हि वैदिकमन्त्रेण स्त्रीपुसयोरेकत्वं द्विजैरापात। किंविशिष्टामपि ? अरमत्यन्तं परामात्मनोर्थान्तरभूतामपि । किंविशिष्टो यतः ? वपुरित्यादि । वपुषा शरीरेण सह तादाम्यमेकत्वं वपुस्तादात्म्यम् । तस्येक्षा दर्शनं वपुरेवाहमहमेव वपुरिति प्रत्ययो वपुस्तादात्म्येक्षा । तस्या मुखं द्वारं तन्मुखम् । तेन प्रवृत्तं रतिसुखं मैथुनशर्म। तत्रोत्क उत्सुको वपुस्तादात्म्येक्षामुखरतिसुखोत्कः ॥ __ एवं स्त्रीप्रसक्तस्य जनन्यादिपरिभवोत्पादनद्वारेण कृतघ्नत्वं प्रकाश्य साम्प्रतं मरणेनापि तामनुगच्छतस्तस्य दुरन्तदुर्गतिदुःखोपभोगं वक्तृवाग्भझ्या व्यनक्तिचिराय साधारणजन्मदुःखं पश्यन्परं दुःसहमात्मनोगे। पृथग्जनः कर्तुमिवेह योग्यां मृत्यानुगच्छत्यपि जीवितेशाम् ॥
अनुगच्छत्यपि अनुवर्तते । कोसौ ? पृथग्जनः । काम् ? जीवितेशां वल्लभाम् । कया ? मृत्यापि मरणेन । किं पुनरितरदुःखेनेत्यपि. शब्दार्थः । तस्यां मृतायां स्वयं म्रियते इत्यर्थः । किं कर्तुमिव ? कर्तमिव । काम् ? योग्यामभ्यासं । किं कुर्वन् ? पश्यन्नवलोकयन् । किं तत् ? साधारणजन्मदुःखम् ।
"साहारणमाहारो साहारणमाणपाणगहणं च । साहारणजीवाणं साहारणलक्खणं भणियं॥ जत्थेक्कु मरदि जीवो तत्थ दु मरणं हवे अणंताणं ।
चक्कमइ जत्थ एक्को चकमणं तत्थणंताणं॥" इत्यागमप्रसिद्धसाधारणलक्षणयोगाग्निगोदजीवाः साधारणाङ्गा इत्यर्थः । साधारणेषु जन्म उत्पादः साधारणजन्म । तस्य दुःखम् । किंविशिष्टम् ? परमुत्कृष्टं, दुःसहं सोढुमशक्यम् । कस्य ? आत्मनः स्वस्य । क ? अने अनन्तरजन्मनि । कथम् ? चिराय चिरकालम् ॥ ११० ॥
भार्यायाः संभोगविप्रलम्भशृङ्गाराभ्यां पुरुषार्थभ्रंशकस्वमुपलम्भयतिप्रक्षोभ्यालोकमात्रादपि रुजति नरं यानुरज्यानुवृत्त्या, प्राणैः स्वार्थापकर्ष कृशयति बहुशस्तन्वती विप्रलम्भम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org