________________
२७०
अनगारधर्मामृतेmmmmmmmmmmmmmmmmmmmmmmarwarmaa......
ततः पूर्वदेहं स्वत्वेनाध्यवस्यता जीवेन यत्पुद्गलविपाकि कर्मोपात्तं तद्विपाकसंपादितमिदं शरीरमपेक्ष्य वर्तमानैर्भार्यागृहादिभिरथैर्बहिरात्मजनो गाढमन्तस्तेन केनापि बन्धनेन बद्धो वर्तते । यं दुःखार्तस्तवारप्रवर्त. मानदुःखाक्रान्तः सन् छेतुमपनेतुमिच्छन् वान्छन् निबिडयतितरामऽतिशयेन गाढं करोति । कैः ? विषादाम्बुवः । विषादा अम्बुवर्षाणि जलवृष्टय इव, बाह्यबन्धस्येवान्तवन्धस्य गाढीकरणसाधर्म्यात् । दृश्यते हि रजवादिबन्धो जलसेचनेनातिगाढीभवन् । अज्ञजनो हि दारादि. द्वारायातदुःखैः पीड्यमानः कदाचित्तान् परिहर्तुमिच्छति तद्विच्छेदद्वारप्रवृत्तविषादं च गच्छति । ते न च पुनर्दुःखहेतुमसातवेदनीयं कर्म बहुतरं बनातीति भावः॥१०८॥
अथ षोडशभिः पद्यैश्चेतनबहिरङ्गसङ्गदोषान् प्रविभागेन वक्तुकामः पूर्व तावद्गाढरागनिमित्तभूतत्वात् कलत्रस्य दोषान् वृत्तपञ्चकेनाचष्टे
वपुस्तादात्म्येक्षामुखरतिसुखोत्कः स्त्रियमरं, परामप्यारोप्य श्रुतिवचनयुक्त्याऽऽत्मनि जडः। तदुच्छासोच्छवासी तदसुखसुखासौख्यसुखभाक, कृतघ्नो मात्रादीनपि परिभवत्याः परधिया ॥ १०९॥
आः संतापप्रकोपयोः । परिभवति तिरस्करोति । कोसौ ? जडो मूढजनः । कान् ? भात्रादीनपि जननीजनकादीन् प्रत्यासन्नतमान् । किं पुनरितरजनानित्यपिशब्दार्थः । कया ? परधिया विपक्ष्यबुद्ध्या । किंविशिष्टो यतः ? कृतघ्नः । कृतमुपकृतं मात्रादीनां हन्ति नामीभिर्मम किंचित्कृतं, स्वपुण्यैरहमेवमुद्तोस्मीति । पुनः किंविशिष्टः ? तदुच्छासोच्छासी तस्याः स्त्रिया उच्छासेनोच्छ्वसनशीलः । तदत्यन्तरक्त इत्यर्थः । पुनरपि किंविशिष्टः ? तदित्यादि । तस्याः स्त्रिया असुखसुखे दुःखशर्मणी तदसुखसुखे। तयोरसौख्यं सुखं च भजते तदसुखसुखासौख्यसुखभाक। स्त्रिया दुःखे दुःखी तरसुखे च सुखी भवन्नित्यर्थः । किं कृत्वा ? आरोग्य स्थापयित्वा । काम् ? स्त्रियम् । क्व ? आत्मनि स्वसिन् । कया ? श्रुति
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org