________________
चतुर्थोऽध्यायः।
२६९
मपि । किं पुनः कियदेव वस्त्वित्यपिशब्दार्थः । एष लोभाख्यग्रन्थानु. भावो भावनीयः।
एवमन्तरङ्गपरिग्रहानुभावं भावयित्वा चेतनेतरबाह्यपरिग्रहद्वयस्य दुस्त्यजत्वं तावदविशेषेणैवाभिधत्तेप्राग्देहस्वग्रहात्मीकृतनियतिपरीपाकसंपादितैत,देहद्वारेण दारप्रभृतिभिरिमकैश्चामुकैचालयायैः । लोकः केनापि बाबैरपि दृढमबहिस्तेन बन्धन बद्धो दुःखार्तश्छेत्तुमिच्छन् निबिडयतितरां यं विषादाम्बुवः ॥
लोकः पृथग्जनः केनाप्यलौकिकेन तेन बन्धेन दृढं गाढं बद्ध आत्मना सह नियन्त्रितो वर्तते । क? अबहिरध्यात्मम् । कैः कर्तृभिः ? इमकैः कुत्सितैरेभिः प्रतीयमानैरप्रभृतिभिः कलत्रादिभिरथैः । तथा. ऽमुकैः कुत्सितैरमीभिर्यथातथा प्रतीयमानैरालयाधैर्गृहादिभिरथैः । चशब्दौ परस्परसमुच्चये । उभयेपि युगपद्धनन्तीत्यर्थः । किं विशिष्टरुभ. यैरपि ? बारिपि आत्मनः सकाशादत्यम्तं भिन्नैरपि। अपिशब्दो विस्मये। चित्रं, यद्वाह्या अप्यन्तबंधनन्तीत्यर्थः । केन ? प्रागित्यादि । प्राग्देहे पूर्वभवशरीरे यः स्वग्रह भात्मेत्यात्मीय इति वा निश्चयस्तेन । अनात्मा आत्मा कृता आत्मीकृता स्वीकृता बद्धा या नियतिर्नामकर्मविशेषः । तस्या परीपाक उदयः तेन संपादितः संयोजितश्वासावेतदेह इदं वर्तमानं शरीरं प्राग्देहस्वग्रहात्मीकृतनियतिपरीपाकसंपादितैतद्देहः । तस्य द्वारं स एव वा द्वारं तवारं, तेन । जीवो हि यादृशं भावयति ताशमेवासादयति । तदुक्तम्
अविद्वान् पुद्गलद्रव्यं योभिनन्दति तस्य तत् । न जातु जन्तोः सामीप्यं चतुर्गतिषु मुञ्चति ॥ भाविताश्चासंसारमात्मनारमीयत्वेनात्मत्वेन च पुद्गलाः । तथा चोक्तम्
चिरं सुषुप्तास्तमसि मूढात्मानः कुयोनिषु । अनात्मीयात्मभूतेषु ममाहमिति जाग्रति ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org