________________
२६८
अनगारधर्मामृते
नार्थोऽनर्थः । तमर्थ श्रद्धत्ते अतत्वभूतं वस्तु तत्वभूतं रोचते। धनेश्वरादिच्छन्दानुवृत्तिवशादिति यथासंभवमुपस्कारः कार्यः । तथाच पठन्ति-।
हसति हसति स्वामिन्युच्चै रुदत्यतिरोदिति, गुणसमुदितं दोषापेतं प्रणिन्दति निन्दति । कृतपरिकरं स्वेदोद्गारि प्रधावति धावति,
धनलवपरिक्रीतं यन्त्रं प्रनृत्यति नृत्यति ॥ एष मिथ्यात्वाख्योभ्यन्तरपरिग्रहोनुभावमुखेन व्यञ्जितः । एवमुत्तरेपि यथास्वमूह्याः। (२) तथा सङ्गग्रहात एति याति आलम्बते । कम् ? हसं हास्यम् । क्व ? अनवसरेऽप्रस्ताचे । किं पुनरवसरे इत्यपिशब्दार्थः । एष हास्याख्यग्रन्थानुभावः। (३) तथा सङ्गग्रहात इच्छत्य भिलषति । काम् ? अगम्यामपि गुरुराजादिपत्नीमपि । यदि मां भजसि तदा तुभ्यमिदमिदं ददामीति तया प्रलोभ्यमानस्तदिष्टं साधयतीत्यर्थः । एष पुंवेदाख्य ग्रन्थानुभावो दर्शितः । (४-५) एवं स्त्रीनपुंसकवेदयोरपि यथायथमुन्नेयम् (६) तथा सङ्गग्रहात आस्ते तिष्ठति रतिं बनातीत्यर्थः। क ? अरम्ये. प्यनीतिकरे भिल्लपल्यादिस्थानेपि । एष रत्याख्यग्रन्थानुभावो भावः । (७) तथासौ न रमते । क ? रम्येपि राजधान्यादिस्थानेपि । अहहेत्यद्भुतं खेदं वा द्योतयितुं सर्वत्र यथास्वं योज्यम् । एपोऽरत्याख्यग्रन्थानुभावो धिगम्यः (८) तथासावेति गच्छति । कम् ? शोकं शुचम् । क्व ? दैष्टिकेपि दैवप्रमाणके, दिष्टं दैवं प्रमाणमस्येति दैष्टिकम् । " नास्तिकास्तिकदैष्टिकाः" इति निपातनात् साधुः । एष शोकारव्यग्रन्थानुभावः। (९) तथासौ बिभेति भयमाविशति । कस्मात् ? यस्मात्तस्माद यतस्ततो भयहेतोस्तदहेतोर्वा । एष भयाख्यग्रन्थानुभावः । (१०) तथासौ क्षिपति जुगुप्सते। कान् ? गुणवतोपि गुणिनः । किं पुनर्दोषयुक्तानित्यपि. शब्दार्थः । एष जुगुप्साख्यग्रन्थानुभावः (११) तथासौ प्रयुङ्क्ते प्रयो. जयति । कान् ? उद्धतिक्रोधदम्भान् स्तब्धताक्रूरताप्रतारकत्वानि । छ ? अस्थानेपि गुर्वादिविषयेपि । एते मानक्रोधमायाख्यग्रन्थानामनुभावाः
मेण प्रणिधेयाः (१४) किं बहुना, सङ्गग्रहात? वष्टि कामयते वाग्छति। किं कर्तुम् ? ग्रसितुमऽत्तुं स्वोदरे प्रवेशयितुम् । किं तत् ? जगदपि विश्व.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org