________________
चतुर्थोऽध्यायः।
२६७
परद्रव्यग्रह एव च बन्धकारणम् । स्वद्रव्यसंवृतत्वमेव च मोक्षकारणम् । तथा चोक्तम्
परद्रव्यग्रहं कुर्वन् वध्येतैवापराधवान् ।
बध्येतानपराधो न स्वद्रव्ये संवृतो यतिः ॥ अपि च
मेदविज्ञामतः सिद्धाः सिद्धा ये किल केचन । । तस्यैवाभावतो बद्धा बद्धा ये किल केचन ॥ किं कृत्वा अपरनिर्ममः सन् स्वशर्म भजेत् ? त्यक्त्वा ।कम् ? ग्रन्थम् । किंविशिष्टम् ? त्याज्यं त्यक्तुं शक्यं गृहगृहिण्यादिकम् । कथं कृत्वा ? अशेषम् । बालाग्रमानमपि त्याज्यग्रन्थं स्वसंबन्धितया न धारयेदित्यर्थः । कथंभूतो भूत्वा ? उज्झिताखिलारम्भस्त्यक्तसर्वसावधक्रियः । किं कृत्वा ? परिमुच्य समंतादुत्सृज्य । काम् ? करणगोचरमरीचिकाम् । करणगोचरा इन्द्रियार्था मरीचिका मृगतृष्णेव, जलबुद्ध्या मृगैरिव सुखबुद्ध्या लोकैरौत्सुक्यादभिगम्यमानत्वात् । अथवा करणैश्चक्षुरादीन्द्रियैः क्रियमाणा गोचरेषु रूपादिविषयेषु मरीचिका प्रतिनियतवृत्त्यात्मनो मनाक् प्रकाशः । करणग्रामं संयम्येत्यर्थः । अल्पा मरीचिः प्रकाशो मरीचिका । अल्पे कः ॥ __ धनधान्यादिग्रन्थग्रहाविष्टस्य मिथ्यात्वहास्यवेदरत्यरतिशोकभयजुगुप्सामानकोपमायालोभोद्भवपारतन्ध्यं यत्र तत्र प्रवर्तमानमनुक्रमेण व्याकर्तुमाहश्रद्धत्तेनर्थमर्थ हसमनवसरेप्येत्यऽगम्यामपीच्छ,त्यास्तेऽरम्येपि रम्येप्यहह न रमते दैष्टिकेप्येति शोकम् । यस्मात्तस्माद्धिमेति क्षिपति गुणवतोप्युद्धतिक्रोधदम्भा,नऽस्थानेपि प्रयुङ्क्ते ग्रसितुमपि जगदृष्टि सङ्गग्रहातः ॥ १०७ ॥
सङ्गे परिग्रहे ग्रहोभिनिवेशो ममकाराहंकारपरिणामः । सङ्गो ग्रहो भूतावेश इवेति वा सङ्गग्रहः । तेनर्तः पीडित आक्रान्तः सङ्गग्रहातः । एतदन्तदीपकत्वात्सर्ववाक्याथैः सह संबध्यते । तथाहि । श्रद्धत्तेऽभिनिविशते । कोसौ ? सङ्गग्रहातः पुमान् । कम् ? अनर्थम् । अर्यते गम्यते निश्चीयते हातुमुपादातुं चेत्यर्थः, प्रमाणेनोपदर्शितं हेयमुपादेयं च वस्तु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org