________________
अनगारधर्मामृते
बाह्या यथा
क्षेत्रं धान्यं धनं वास्तु कुप्यं शयनमासनम् ।
द्विपदाः पशवो भाण्डं बाह्या दश परिग्रहाः॥ ते च कर्मबन्धननिबंधनमूर्छानिमित्तत्वात्त्याज्यतयोपदिष्टाः । यदत्राह
मू लक्षणकरणात् सुघटा व्याप्तिः परिग्रहत्वस्य । सग्रन्थो मूर्छावान् विनापि किल शेषसङ्गेभ्यः॥ यद्येवं भवति तदा परिग्रहो न खल कोपि बहिरडः। भवति नितरां यतोसौ धत्ते मूर्छानिमित्तत्वम् ॥ एवमतिव्याप्तिः स्यात् परिग्रहस्येति चेद्भवेनैवम् ।
यस्मादकषायाणां कर्मग्रहणे न मूर्छास्ति । सङ्गत्यागविधिमाहपरिमुच्य करणगोचरमरीचिकामुज्झिताखिलारम्भः । त्याज्यं ग्रन्थमशेपं त्यक्त्वापरनिर्ममः स्वशर्म भजेत् ॥ १०६॥
भजेत् सेवेत साधुः । किं तत् ? स्वशर्म स्वोत्थं सुखम् । किंविशिष्टः सन् ? अपरनिर्ममः। अपरस्मिन् त्याज्याम्थादन्यस्मिन् त्यक्तुमशक्ये शरीरादौ । निर्ममो ममेदमितिसंकल्पनिष्क्रान्तः । उपलक्षणादिदमहम् अहमिदमिति च संकल्पमुक्तश्च । उक्तं च
जीवाजीवणिबद्धा परिग्गहा जीवसंभवा चेव ।
तेसिं सक्कच्चाओ इयरम्हि य णिम्ममोऽसंगो॥ मिथ्याज्ञानानुगम्यमानमोहावेशाद्धि जायमानौ ममकाराहंकारावाऽs. विशन्नात्मा रागादिषु विवर्तते । तल्लक्षणं यथा
शश्वदनात्मीयेषु स्वतनुप्रमुखेषु कर्मज नितेषु । आत्मीयाभिनिवेशो ममकारो मम यथा देहः ॥ ये कर्मकृता भावाः परमार्थनयेन चात्मनो भिन्नाः। तत्रात्माभिनिवेशोहंकारोहं यथा नृपतिः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org