________________
चतुर्थोऽध्यायः।
उभयपरिग्रहदोषख्यापनपुरःसरं श्रेयोर्थिनस्तत्परिहारमुपदिशतिशोध्योऽन्तर्न तुषेण तण्डुल इव ग्रन्थेन रुद्धो बहि,जीवस्तेन बहिर्भुवापि रहितो मूर्खामुपार्छन्विषम् ।। निर्मोकेण फणीव नार्हति गुणं दोरैरपि त्वेधते, तद्वन्थानबहिश्चतुर्दश बहिश्चोज्झेदश श्रेयसे ॥१०५॥
न शोध्यः । कोसौ ? जीवः । व ? अन्तरध्यात्म कर्ममलं त्याजयितुमशक्य इत्यर्थः । किंविशिष्टः सन् ? रुद्ध आसक्तिं नीतः । केन ? प्र. न्थेन । क ? बहिर्बाह्येन चेतनाचेतनेन परिग्रहेण स्वस्मिन् ममकारं कारिते इत्यर्थः । क इव ? तण्डुल इव यथा तण्डुलशाल्यादिकणोन्तमध्ये न शोध्यः कोण्डकं त्याजयितुमशक्यः । किंविशिष्टः सन् ? रुद्धश्छादितः । केन ? तुषेण । क ? बहिर्बाह्य देशे । जीवोपीत्यर्थः । उक्तं च
शक्यो यथापनेतुं न कोण्डकस्तण्डुलस्य सतुषस्य ।
न तथा शक्यं जन्तोः कर्ममलं सङ्गसक्तस्य ॥ ___ एवं तर्हि बहिरङ्ग एव संगस्त्याज्यो, नान्तरङ्ग इत्याशङ्कायामिदमाह-तेने त्यादि । नाहति । नाधिकरोति । न भजते इत्यर्थः । कोसौ ? जीवः । कम् ? गुणमहिंसकत्वाभिगम्यत्वादिकम् । किं कुर्वन् ? उपार्छन्नुपगच्छन् । काम् ? मूर्छाम्। किंविशिष्टोपि ? रहितोपि त्यक्तोपि । केन ? तेन ग्रन्थेन । किं विशिष्टेन ? बहिर्भुवा बाह्येन । अपि तु किंतु एधते वर्धते । कैः ? दोषैर्गुणविपर्ययैः । क इव ? फणीव । यथा सर्पो निर्मोकेण कञ्चकेन रहितोपि विषं गरलमुपार्छन्नाश्रयन्गुणं नार्हति । किं तु दोषैर्वर्धते । एवं जीवोपि। यत एवं तत्तस्मादुज्झेत्साधुः । कान् ? अबहिरभ्यन्तरान् ग्रन्थान् । कति ? चतुर्दश । बहिश्च बाह्यान् दश त्यजेत् । कस्मै ? श्रेयसे चारित्राथं मोक्षार्थ वा । अभ्यन्तरा यथा
मिच्छत्तवेदरागा हस्सादीया य तहय छद्दोसा। चत्तारि तह कसाया चउद्दसाभंतरा गंथा ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org