________________
२६४
अनगारधर्मामृते
मूर्छाम् । केन ? आकिंचन्यसुसिद्धमन्त्रसतताभ्यासेन । नास्ति किंचन ममेत्यकिंचनः। अकिंचनस्य भाव आकिंचन्यं नैर्मम्यम् । यो गुरूपदेशानन्तरमेव स्वकर्म करोति स मन्त्रः सुसिद्धः । यदाहुः
सिद्धः सिध्यति कालेन साध्यो होमजपादिना ।
सुसिद्धस्तत्क्षणादेव अरिं मूलान्निकृन्तति ॥ आकिंचन्यं सुसिद्धमन्न इवाव्याहतप्रभावत्वात् । तस्य सतताभ्यासेन नित्यभावनया । किंवत् ? दुष्टग्रहवद् ब्रह्मराक्षसादिग्रहमिव । कथमा. किंचन्यम् ? इति एवम् ।-न वर्तते । किं तत् ? किमपि किंचिद्वाह्य. माध्यात्मिकं वा वस्तु । कस्य ? मे मम । तथा नो वर्ते न भवाम्यहम् । कस्य ? कस्यापि बाह्यस्याध्यात्मिकस्य वा वस्तुनः । खलुशब्दान्न कोप्यन्योहं नाहमन्यः कश्चिदिति ग्राह्यम् । एवं भूतेनाकिंचन्येन नित्यं भावनाविषयेण सुसिद्धमन्त्रेण दुष्टग्रहमिव ये तां मूर्छा निगृह्णन्ति । या किम् ? या मूछी भवति । कथंभूता ? आवेशनमावेशः । कस्मात् ? मोहवशात् चारित्रमोहनीयकर्मविपाकपारतन्त्र्यात् । कथम् ? ममेदमहमस्येत्येवम् । इति शब्दः स्वरूपार्थः । तेन समेदमिति स्वरूपमहमस्येत्येवं स्वरूपं च यदावेशनं सा मूर्छा । एवंशब्दः प्रकारार्थः तेनाहं याज्ञिकोहं परिवाडहं राजाहं पुमानहं स्वीत्यादिमिथ्यात्वादिविवाभिनिवेशा गृह्यन्ते उक्तं च
या मूर्छा नामेयं विज्ञातव्यः परिग्रहोयमिति । मोहोदयादुदीर्णो मूर्छा तु ममत्वपरिणामः ॥ मोहवशादित्यत्राविशेषोक्तावपि मोहशब्देन लोभ एव गृह्यते तस्यैव परिग्रहसंज्ञाहेतुत्वप्रसिद्धः । तथा ह्यागमः- उवयरणदंसणेण य तस्सुवओगेण मुच्छिदाए य ।
लोहस्सुदीरणाए परिग्गहे जायदे सण्णा ॥ ननु चाकिंचनाश्व जगत्स्वामिनश्चेति व्याहतमेतदिति अत्र समर्थनमाह-हि यस्माद्भवति । किं तत् ? वृत्तं चरितम् । केषाम् ? सतां साधूनाम् । किंविशिष्टम् ? चित्रमाश्चर्यम् । अलौकिकमिति यावत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org