________________
चतुर्थोऽध्यायः।
घु वरा मुख्या यतिवराः। किं विशिष्टाः ? चारित्रपूर्वाः । चारित्रः पूर्व आधो येषां शकटकूर्चवाररुद्रादीनां ते चारित्रपूर्वाः। काम् ? तां तां शास्त्रलोकप्रसिद्धां विडम्बनामुपहासपदवीम् ? क ? क्षितौ पृथिव्याम् । कस्मात् ? हठाद् बलात्कारात् । कैः कर्तृभिः ? लोलाक्षीप्रतिसारकैः । लोलाक्ष्यः कामिन्यः प्रतिसारकाः शौल्किकभटा इव शौल्किकस्यैव मोहस्य कार्यसमवायित्वात् । किंविशिष्टैः ? मदवशैर्दाविष्टैः । किं कृत्वा ? आक्षिप्य सोल्लुण्ठं हठायावर्त्य । किंविशिष्टाः सन्तः ? प्रस्थिताः। प्र. स्थातुमारब्धाः । प्रचलिता इत्यर्थः । किं तत् ? अयनं मार्गम् । कस्याः ? मुक्तनिवृतेः । क ? पुरः पुरस्तात् । किं कृत्वा ? भृत्त्वा संगृह्य । किं तत् ? सहुणपण्यजातम् । सद्गुणाः सम्यग्दर्शनादयः पण्यानि विक्रेयद्व्याणीव विशिष्टार्थलाभहेतुत्वात् । तेषां जातं संघातम् । कस्मात्प्रस्थिताः ? सद्माकरात् । स गृहमाकर इव पण्यानामिव सद्गुणानामु. त्पत्तिनिमित्तत्वात् । केन ? दुरित्यादि । शुवति शुलति वा सुखेन यात्यनेनेति शुल्कः प्रावेश्यनैष्कर्म्यद्रव्येभ्यो राजग्राह्यो भागः । शुल्के नियुक्तः शौल्किकः । मोहश्चारित्रमोहनीयं कर्म शौकिक इवापायावद्यभूयिष्ठत्वात् दुर्धर्षोऽभिभवितुमशक्य उद्धतस्तब्धः स चासौ मोहशौकिकश्च । तस्य तिरस्कारेण-छलनोपक्रमेण । कथा संप्रदायाद्वेद्या ॥ इति ब्रह्म. चर्यमहाव्रतम् ।
अथाकिंचन्यव्रतमष्टचत्वारिंशता पद्यैावर्णयितुमनास्तत्र शिवार्थिनः प्रोत्साहयितुं लोकोत्तरं तन्माहात्म्यमादावादिशतिमूर्छा मोहवशान्ममेदमहमस्येत्येवमावेशनं, तां दुष्टग्रहवन मे किमपि नो कस्याप्यहं खल्विति । आकिंचन्यसुसिद्धमन्त्रसतताभ्यासेन धुन्वन्ति ये ते शश्वत्प्रतपन्ति विश्वपतयश्चित्रं हि वृत्तं सताम् ॥ १०४ ॥
ते विश्वपतयस्त्रैलोक्यनाथाः सन्तः शश्वदजस्रं प्रतपन्ति अव्याहततेजसो भवन्ति । ये किम् ? ये धुन्वन्ति निगृह्णन्ति । काम् ? तां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org