________________
२६२
अनगारधर्मामृते
रणवृष्येष्टरसादिवर्जनस्य पुनरुपदेशो ब्रह्मचर्यपालनेत्यन्तं यत्नः कर्तव्य इति बोधयति सुदुःसाध्यत्वात्तस्य । तथा च पठन्ति
अक्खाण रसणी कम्माण मोहणी तह वयाण बंभं च । गुत्तीण य मणगुत्ती चउरो दुक्खेण सिझंति ॥ वृष्यद्रव्यसौहित्यप्रभावं भावयति
को न वाजीकृतां दृप्तः कंतुं कंदलयेद्यतः।
ऊर्ध्वमूलमधःशाखमृषयः पुरुष विदुः ॥१०२ ॥ को न कंदलयेत् । सर्वोप्युद्भावयेदित्यर्थः जिह्वेन्द्रियसंतर्पणप्रभवत्वात्कन्दर्पदर्पस्य । कं ? कंतुम् । किंविशिष्टः सन् ? दृप्त उद्राणः । केषाम् ? वाजीकृताम् । अवाजिनं वाजिनं कुर्वन्तीति वाजीकृतो रेतोवृद्धिकराः क्षीराद्यर्थाः तेषां । यतो यस्मादृषयः पुरुषं विदुर्जानन्ति । किंविशिष्टम् ? ऊर्ध्वमूलम् । ऊर्ध्वमुपरि मूलं जिह्वा कण्ठाद्यवयवस्तम्बो यस्य स एवम् । तथाऽधोगताः शाखा भुजाद्यवयवा यस्य सोधःशाखस्तम् । __ पूर्वपि भूयांसो मुक्तिपथप्रस्थायिनो ब्रह्मव्रतप्रमादभाजो लोके भूयांसमुपहासमुपगता इति दर्शयंस्तत्र सुतरां साधूनवधानपरान् विधातुमाहदुर्धपोद्धतमोहशौल्किकतिरस्कारेण सद्माकराद्, भृत्त्वा सद्गुणपण्यजातमयनं मुक्तेः पुरः प्रस्थिताः । लोलाक्षीप्रतिसारकैमेदवशैराक्षिप्य तां तां हठा,नीताः किन्न बिडम्बना यतिवराः चारित्रपूर्वाः क्षितौ॥१०॥
किं न नीताः प्रापिताः । के ? ते यतिवराः। यो देहमात्रारामः सम्यग्विद्यानौलाभेन तृष्णासरितारणाय योगाय यतते स यतिः । यति.
१ अक्षाणां रसना कर्मणां मोहनीयं तथा व्रतानां ब्रह्म च । गुप्तीनां मनोगुप्तिश्चत्वारो दुःखेन सिध्यन्ति ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org