________________
चतुर्थोऽध्यायः।
२६१
सुशीलोपि सदाचारोपि नरः कुशीलो दुराचारः स्यात् । कया ? दुर्गाष्ट्या दुष्टजनसंकथया । किंवत् ? चारुदत्तवत् चारुदत्ताख्यश्रेष्टिना तुल्यम् । तथा कुशीलोपि सुशीलः स्यात् । कया ? सद्गोष्ट्या सजनसंकथया । किंवत् ? मारिदत्तवद् मारिदत्ताख्यराजपुरराजेन तुल्यम् । एतत्कथे संप्रदायादधिगन्तव्ये ॥ इति वृद्धसंगतिविधानम् । __ एवं स्त्रीवैराग्यपञ्चकोपचितं ब्रह्मचर्यव्रतं स्त्रीरागकथाश्रवणतन्मनोहराङ्गनिरीक्षणपूर्वरतानुस्मरणवृष्येष्टरसस्वशरीरसंस्कारपरिहारस्वभावभावनापञ्च. केन स्थैर्यमासादयेयदित्युपदेष्टुमिदमाचष्टेरामारागकथाश्रुतौ श्रुतिपरिभ्रष्टोसि चेष्टा , तद्रम्याङ्गनिरीक्षणे भवसि चेत्तत्पूर्व भुक्तावसि । निःसंज्ञो यदि वृष्यवाञ्छितरसास्वादेऽरसज्ञोसि चेत्, संस्कारे स्वतनोः कुजोसि यदि तत्सिद्धोसि तुर्यव्रते ॥१०१॥ __ भोः साधो, चेदसि त्वम् । किं विशिष्टः ? श्रुतिपरिभ्रष्टोऽत्यन्तबधिरः । क्व ? रामारागकथाश्रुतौ । रामायां स्त्रियां रागो रतिस्तदर्थी रासया रागेण वा क्रियमाणा कथा रामारागकथा । तस्याः श्रुतावाकर्णने । तथा भवसि चेत्वम् । किंविशिष्टः ? भ्रष्टदृग् अन्धः । क ? तद्रम्याङ्गनिरीक्षणे रामाया मनोहराणामङ्गानां मुखवक्षोजाद्यवयवानां निरीक्षणे अवलोकने। तथा यद्यसि त्वम् । किं विशिष्टः ? निःसंशोऽमनस्कः । अस्मत्तत्यर्थः । क्व ? तत्पूर्वभुक्तौ रामायाः प्रागुपभोगे । तथा चेदसि त्वमरसज्ञो निर्जिह्वः । क ? वृष्यवाञ्छितरसास्वादे । वृष्याणां शुक्रवर्धनानां वाग्छितानां चेष्टानां रसानां मधुरादिरसानामास्वादेऽभ्यासेन सेवने । तथा यद्यसि त्वम् । किं विशिष्टः ? कुजो वृक्षः । क्क ? संस्कारेऽतिशयाधाने । कस्याः ? स्वतनोः स्वशरीरस्य । स्वशरीरसंस्कारपरामखो यदि भवसीत्यर्थः । तत्ततः सिद्धोसि प्रतीतोसि त्वम् । क्व ? तुर्यव्रते। निरूढप्रौढब्रह्मव्रतोसीत्यर्थः । अन्न पूर्वरतानुस्म
१ किंविशिष्ट इति प्रश्नवाक्यमत्रमावश्यकम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org