________________
२६०
अनगारधर्मामृते
अवश्यं यौवनस्थेन क्लीवेनापि हि जन्तुना । विकारः खलु कर्तव्यो नाविकाराय यौवनम् ॥
अपि च
यस्मिन्नजः प्रसरति स्खलितादिवोच्चै, - रान्ध्यादिव प्रबलता तमसश्चकास्ति । सत्त्वं तिरोभवति भीतमिवाङ्गजाग्ने, - स्तद्यौवनं विनयसज्जनसङ्गमेन ॥
तारुण्येप्यविकारिणं प्रणौति
दुर्गेपि यौवनवने विहरन् विवेक, - चिन्तामणिं स्फुटमहत्त्वमवाप्य धन्यः । चिन्तानुरूपगुणसंपदुरुप्रभावो,
वृद्धो भवत्यपरितोपि जगद्विनीत्या ॥ ९९ ॥
धन्यः सुकृती अपलितोपि जराविकाररहितोपि वृद्धो भवति । कया ? जगद्विनीत्या लोकानां शिक्षासंपादनेन । किं कृत्त्वा ? अवाप्य प्राप्य | कम् ? विवेक चिन्तामणिम् । विवेको युक्तायुक्तविचारचातुरी चिन्तामणिरिव चिन्तितार्थ संपादकत्वात् । किंविशिष्टम् ? स्फुटमहत्त्वम् । स्फुटं व्यक्तं महत्त्वं महिमा संयमसाधकत्वेन जगत्पूज्यत्वं यस्मात् । किं कुर्वन् ? विहरन् चेष्टमानः । क्व ? यौवनवने तारुण्यारण्ये । किंविशिष्टे ? दुर्गेपि । दुःखेन गम्यतेस्मिन्निति दुर्गम् । दुरतिक्रममित्यर्थः । कथंभूतो भूवा ? चिन्तेत्यादि । चिन्ताया मनः क्षोदस्यानुरूपया सदृश्या गुणसंपदा उरुर्महान् प्रभावोऽचिन्त्यशक्तिविशेषो यस्यासौ चिन्तानुरूपगुणसंपदुरु
प्रभावः ॥
असाधुसाधुसंकथाफलं लक्ष्यद्वारेण स्फुटयति-
सुशीलोपि कुशीलः स्याद्दुर्गेष्ट्या चारुदत्तवत् I कुशीलोपि सुशीलः स्यात् सगोट्या मारिदत्तवत् ॥१००॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org