________________
चतुर्थोऽध्यायः।
२५९
करकेटुके यथा रागो वर्णवैचित्र्यमुदीर्णमप्युपलक्षेपतः पाषाणप्रक्षेपात् क्षिप्रं प्रशाम्यति तथा प्राकरणिकोपि । ततः पिङ्गसांगत्यं त्यजभिब्रह्मत्रताथिभिः सदा वृद्धसांगत्यं विधेयमिति तात्पर्यार्थोत्र बोद्धव्यः ॥
प्रायो यौवनस्यावश्यं विकारकारित्वप्रसिद्वेर्गुणातिशयशालिनोपि तरुणस्याश्रयण मविश्वास्यतया प्रकाशयन्नाह
अप्युद्यद्गुणरत्नराशिरुगपि स्वस्थः कुलीनोपि ना, नव्येनाम्बुधिरिन्दुनेव वयसा संक्षोभ्यमाणः शनैः। आशाचक्रविवर्तिगार्जितजलाभोगः प्रवृत्त्यापगाः, पुण्यात्माः प्रतिलोमयन्विधुरयत्यात्माश्रयान् प्रायशः॥९८॥ उद्यती प्रतिक्षणमारोहन्ती गुणरत्नराशेर्ज्ञानसंयमादिगुणमणिगणस्य रुगू दीप्तिर्यस्य सोऽयमुद्यगुणरत्नराशिरुगपि । तथा स्वच्छोपि सुप्रसन्नोपि तथा कुलीनोपि महाकुलोपि पक्षे को भूमौ लीनः श्लिष्टोपि ना पुमान् विधुरयति श्रेयसो भ्रंशयति । कान् ? आत्माश्रयान् शिष्यादीन् मत्स्यादींश्च । कथम् ? प्रायशो बाहुल्येन । किं कुर्वन् ? प्रतिलोमयन् व्यावर्तयन् । उत्पथे चारिणीः कुर्वन्नित्यर्थः । काः ? प्रवृत्त्यायगा। प्रवृ. त्तीर्मनोवाक्कायक्रिया आपगा इव गङ्गादिनदीरिव कलिमलक्षालनहेतुत्वात् श्रेयोर्थिभिरुपास्यमानत्वाच्च । किंविशिष्टाः ? पुण्यात्माः । पुण्यः पवित्र आत्मा स्वभावो यासां ताः पुण्यात्माः । “अनश्चयात्" इति डा। किंवि. शिष्टः सन् ? आशेत्यादि । आशाचके प्रत्याशापरम्परायां विवर्ती विविध वर्तमानो गर्जितानां सोत्सेकशब्दवतां जडानां मूढलोकानामा समन्ताद् भोग इष्टविषयोपयोगो यस्मात्स आशाचक्रविवर्तिगर्जितजलामोगः । पक्षेदिग्मण्डलविचेष्टमानगर्जितयुक्तवारिविस्तारश्च । किं क्रियमाणो. सावेवंविधो भवेदित्याह-संक्षोभ्यमाणः प्रकृतेश्वाल्यमानः । कथम् ? शनैर्मन्दं मन्दम् । केन ? वयसा । किंविशिष्टेन ? नव्येन तरुणेन प्रौव. नेनेत्यर्थः । क इव केन ? अम्बुधिरिन्दुनेव समुदो यथा चन्द्रेण । यल्लोकः
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org