________________
२५८
अनगारधर्मामृते
र्तिबृहद्भयाः। तथा परहिते परोपकारे व्यापारः प्रवृत्तिः । तत्र नित्यमुच्छ्रय उत्सवो येषां ते परहितव्यापारनित्योच्छ्रयाः । तथा प्रत्यासन्नः कतिपयभवभावी महोदयो मोक्षो येषां ते प्रत्यासन्नमहोदयाः । तथा समरसीभावस्य शुद्धचिदानन्दानुभवस्यानुभावाः सद्योरागादिप्रक्षयजातिकारणवैरोपशमनोपसर्गनिवारणादयः तेषामुदय उत्कर्षों येषाम् । अथवा समरसीभावस्थानुभावः कार्यमुदयो बुद्धितपोविक्रियौषधिप्रभृतिलब्धिलक्षणोभ्युदयो येषां ते समरसीभावानुभावोदयाः॥
वृद्धेतरसांगत्ययोः फलविशेषमभिलपतिकालुष्यं पुंस्युदीर्ण जल इव कतकैः संगमाद्येति वृद्धरश्मक्षेपादिवाप्तप्रशममपि लघुदेति तत्पिड्गसङ्गात् । वाभिर्गन्धो मृदीवोद्भवति च युवभिस्तत्र लीनोपि योगाद्, रागो द्राग्वृद्धसङ्गात्सरटवदुपलक्षेपतश्चैति शान्तिम् ॥ ९७ ॥
व्येति प्रशाम्यति । किं तत् ? कालुष्यं द्वेषशोकभयादिसंक्केशः । किंविशिष्टम् ? उदीर्ण स्वनिमित्तसन्निधानादुद्भूतम् । व ? पुंसि जीवे । कमायेति ? सङ्गमात् सांगत्यात् । कैः सह ? वृद्धरुदितोदितज्ञानसंयमादिगुणैः । कस्मिन्निव ? जले इव । यथा जले कालुष्यं पङ्काविल. त्वमुदी] कतकैः कतकफलचूर्णैः सह संगमात्संयोगात्प्रशाम्यति तथा प्रकृतमपि । तथा तत्पुंस्युदीण कालुष्यं वृद्धसंगमादाप्तप्रशममपि प्रशान्त. मपि सल्लघु शीघ्रमुदेत्युद्भवति । करमात् ? पिगसंगाद् विसंस
त् । अन दृष्टांतमाह-यथा जले तत्पकाविलवलक्षणं कालुष्यमुदीर्ण कतकफलचूर्णसंयोगात्प्रशान्तमपि लघु क्षिप्रमश्मक्षेपादुपलप्रक्षेपादुदे. त्येवं प्रस्तुतमपि । तथा तत्र पुंसि लीनोप्यनुद्भूतोपि रागो द्राक शीघ्रमुद्भवति । कस्मात् ? युवभिः पिङ्गैः सह योगात् संसर्गात् । दृष्टान्तमाह-यथा मृदि मृत्तिकायां लीनोपि गन्धो वार्भिर्जलैः सह योगाद् दागुद्भवति । तथा प्राकरणिकोपि । तथा रागः पुंस्युदीर्णोपि शान्तिमेति प्रशाम्यति । कस्मात् ? वृद्धसंगात् । दृष्टान्तमाह-सरटवत् । सरटे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org