________________
चतुर्थोऽध्यायः ।
२५७
क्लान्तजन्तुव्रजयुक्; तस्याम् । पुनरपि किंविशिष्टायाम् ? रुधिरोद्गार - गर्होद्धुरायाम् । रुधिरस्य शोणितस्योद्गारो बहिर्निःसरणम् । तेन ग जुगुप्सा । ततस्तया वा उद्धुरा उद्विक्ता तस्यां । पुनः किं विशिष्टोसौ ? मूर्छा - लो मूर्च्छितः । कैः ? प्रेत्यादि । करणानि स्पर्शनादीन्द्रियाणि । तान्येव प्रेता नारकाः । तेषां वर्गः संघातः । प्रकुपितः स्वेष्टसाधनाय संरब्धः । स चासौ करणप्रेतवर्गश्च । तत्कृतैरुपसर्गेरुपप्लवैः । इति अशुचिस्वभावना ॥
1
अथ पञ्चभिः पद्यैर्वृद्धसांगत्य विधानमभिधातुमनाः कुशलसातत्यकामस्य मुमुक्षोर्मोक्षमार्ग निर्वहणचणानां परिचरणमत्यन्तकरणीयतया प्रागुपक्षिपति
स्वानूकाङ्कुशिताशयाः सुगुरुवाग्वृच्यस्त चेतःशयाः, संसारार्ति बृहद्भयाः परहितव्यापारनित्योच्छ्रयाः । प्रत्यासन्नमहोदयाः समरसीभावानुभावोदयाः, सेव्याः शश्वदिह त्वयाद्यतनयाः श्रेयः प्रबन्धेप्सया ॥ ९६ ॥
भोः साधी, आहतनया अभ्युपगतनीतयो वृद्धाचार्यास्त्वया शश्वन्नत्यमिह ब्रह्मव्रते सेव्या आराध्याः । कया ? श्रेयः प्रबन्धेप्सया | श्रेयसश्चारित्रस्य कल्याणस्य वा प्रबन्धोऽव्युच्छित्तिः । तस्येप्सया वाञ्छया । किंविशिष्टाः ? स्वेत्यादिविशेषणषट्कविशिष्टाः । अनूकः कुलम् । तच्चेह पितृगुरुसंबन्धि । कुलीनो हि दुरपवादभयादकृत्यान्नितरां जुगुप्सते । स्वस्यात्मनोऽनूकः स्वानुकः । तेनाङ्कुशित उत्पथान्निरुद्ध आशयश्चित्तं यैर्येषां वा ते स्वानूकाकुशिताशयाः । तथा सुगुरोः सम्यगुपदेष्टुवग् वचनं सुगुस्वाक् । तत्र वृत्तिरवस्थितिः । तयाऽस्तः क्षिप्तश्चेतःशयः कामो यैर्येषां वा ते सुगुरुवाग्वृत्त्यस्तचेतःशयाः । यदाह
यः करोति गुरुभाषितं मुदा संश्रये वसति वृद्धसंकुले | मुष्वते तरुणलोकसंगतिं ब्रह्मचर्यममलं स रक्षति ॥
तथा संसारार्तिभ्यः संसृतिपीडाभ्यो बृहद्विपुलं भयं येषां ते संसारा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org