________________
२५६
अनगारधर्मामृते
Avvvvvvvvvvv
~
इत्यादि विशेषणत्रयविशिष्टम् । वर्चःपाको भुक्ताहारकिट्टरूपतापरिणमनम् । वर्चःपाकार्था चरुः स्थाली वर्च-पाकचरुः । तथा जुगुप्स्यवसतिम् । जुगुप्स्यानां सूकाजनकानां मूत्रातवादीनां वसतिः स्थानम् । तथा प्रस्वेदधारागृहम् । प्रस्वेदस्य प्रकृष्टस्वेदजलस्य धारागृहं विगलज. लायमानम् । वा अथवा कः क्लेशमवैति को दुःखं वेत्ति, न कश्चित् । किंविशिष्टः सन् ? रत आसक्तः । क ? शर्मणि सुखे । किंविशिष्टे ? संप्रत्ययप्रत्यये अतद्गुणे वस्तुनि तद्गुणत्वेनाभिनिवेशः संप्रत्ययः प्रत्ययः कारणं यस्य तदेवम् ॥
परमावद्ययोषिदुपस्थलालसस्य पृथग्जनस्य विषयव्यामुग्धबुद्धेर्दुःसह. नरकदुःखोपभोगयोग्यताकरणोद्योगमनुशोचतिविष्यन्दिक्लेदविश्राम्भसि युवतिवपुःश्वभ्रभूभागभाजि क्लेशाग्निक्लान्तजन्तुव्रजयुजि रुधिरोद्गारगोंडुरायाम् ।
आयूनो योनिनद्यां प्रकुपितकरणप्रेतवर्गोपसगैं,मूर्छालः स्वस्य बालः कथमनुगुणयेद्वै तरं वैतरण्याम् ॥९५ ॥
कथमिति विस्मये खेदे वा। वै स्फुटम् । कथमनुगुणयेदनुकूलयेत् । कोसौ ? बालोऽज्ञः । कम् ? तरं तरणम् । कस्याम् ? वैतरण्यां नरकनद्याम् । कस्य ? स्वस्यात्मानं वैतरणीप्रतरणयोग्यं कथं कुर्यादित्यर्थः । किंविशिष्टः सन् ? आयूनो लम्पटः। कस्याम् ? योनिनद्यां भगतरङ्गिण्याम् । किंविशिष्टायाम् ? युवतीत्यादि । युवतिवपुस्तरुणीशरीरम् । तदेव श्वभ्रभूनरकभूमिः । तस्या भागो नियतदेशः । तं भजतीति युवतिवपु:श्वभ्रभूभागभाक्, तस्याम् । पुनः किंविशिष्टायाम् ? विष्यन्दिक्लेदविश्राम्भसि । क्लेदः कुथितावस्थं द्रवद्रव्यम् । विश्रमामगन्धि अम्भस्तोयं विश्राम्भः । क्लेद एव विश्राम्भः क्लेदविश्राम्भः । विष्यन्दि अभीक्ष्णं स्रवत् केदविश्राम्भो यस्यां सैवम् । पुनरपि किं विशिष्टायाम् ? केशेत्यादि । क्लेशा नानादुःखानि । त एवाग्नयो वन्हयः । तैः कान्ता ग्लानाः । ते च ते जन्तुबजाः प्राणिसंघाताश्च तान् युनक्ति आत्मना योजयतीति क्लेशाग्नि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org