________________
चतुर्थोऽध्यायः ।
२५५
कारित्वाद्गह जुगुप्साकारिण उद्द्वारा ऊर्ध्वं सशब्दा वातोद्गमा येषाम् । ते च ते मलाच श्लेष्मविण्मूत्रप्रस्वेदादयः । तैरुपलक्षितो ज्ञापितोनुभवमानीतो निजस्यात्मीयस्यान्तर्भागस्य मध्यदेशस्य भाग्योदयो विपरीतलक्षणया पुण्यविपाको येन तत्तथोक्तम् । तदा दत्तमारोपितम् । किं तत् ? पदं पादः । क ? गले ग्रीवायाम् । कस्य ? मोहस्याज्ञानस्य चारित्रमोहनीयस्य वा । मोहः साधुना तिरस्कृत इत्यर्थः ॥
स्त्रीशरीरस्य रम्याहारवस्त्रानुलेपनादिप्रयोगेणैव चारुत्वमाभासते इति प्रौढोक्त्या व्यञ्जयति
वर्चः पाकचरुं जुगुप्स्यवसतिं प्रस्वेदधारागृहं, बीभत्सैक विभावभावनिवहैर्निर्माय नारीवपुः । वेधा वेद्मि सरीसृजीति तदुपस्कारैकसारं जगत्, को वा शमवैति शर्मणि रतः संप्रत्ययप्रत्यये ॥ ९४ ॥
वेद्मि अहमेवं जानामि वेधाः स्रष्टा सरीसृजीति पुनः पुनः सृजति । किं तत् ? जगद् भोगोपभोगाङ्गप्रपञ्चम् । चराचरस्य जगतो रामाशरीररम्यतासंपादनद्वारेणैव कामिनां मनः परमनिवृत्तिनिमित्तत्वात् तदुपभोगस्यैव लोके परमपुरुषार्थतया प्रसिद्धत्वात् । यदाह भट्टरुद्रट:--
राज्ये सारं वसुधा वसुन्धरायां पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥
किंविशिष्टं सरीसृजीति तत् ? तदुपस्कारैकसारम् । तस्य नारीवपुष उपस्कारो गुणान्तराधानं चारुत्वसौरभ्याद्यापादनम् । स एवैक उत्कृष्टः सारः फलं यस्य तेनैकेन वा सारं ग्राह्यं तदुपस्कारैकसारं जगद्वेधाः सरीसृजति । किं कृत्वा ? निर्माय सृष्ट्वा । किं तत् ? नारीवपुः स्त्रीशरीरम् । कैः ? बीत्यादि । बीभत्सो जुगुप्साप्रभवो हृत्संकोचकृद्रसः विभावाः कारणानि भावा: पदार्थ दोषधातुमलादयः । बीभत्सस्यैकस्य रसान्तरासंपृक्तस्य 'विभावा आलम्बनोद्दीपनत्वेन जनका बीभत्सैक विभावाः । ते च ते भावाश्च दोषादयः तेषां निवहाः संघातास्तैः । किंविशिष्ट सृष्ट्वा १ वर्ष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org