________________
२५४
अनगारधर्मामृते
कलशाविति । कठिनोन्नतपीनत्वगुणयोगात् काञ्चनकलशाविमाविति संप्रधार्य । पुनः किं कुर्वन् ? ओष्ठमधरं पिवन्नास्वादयन् । किंविशिष्टम् ? अङ्गेत्यादि । अङ्गव्रणमिवाशुचिरूपत्वात् । तस्य मुखं निस्सरणद्वारं यन्मुखं वक्रम् । तस्य क्लेदेन क्वाथेन कलुषं कश्मलम् । कथं कृत्वा पिबन् ? सुधास्यन्दीति । अमृतस्यन्दनशीलोयमिति समर्थ्य | पुनरपि किं कुर्वन् ? गच्छन्नुपभुञ्जनः । किं तत् ? भगं योनिरन्धम् । किंविशिष्टम् ? आर्तवपथं रजोवाहि । कथं कृत्वा गच्छन् ? रमणमिति रमयतीति रमणमिदमिति श्रद्धाय । अपिः समुच्चये । स्त्रिया इति संबन्धिपदं सामर्थ्यधं कुचोष्ठभगैः सह संबन्धनीयम् ॥
स्त्रीशरीरेनुरज्यन्त्यां दृष्ट्यां झटिति तत्स्वरूपपरिज्ञानोन्मेष एव मोहापोहाय स्यादित्यावेदयति
रेतः शोणितसंभवे बृहदणुस्रोतःप्रणालीगल -- गर्होद्गारमलोपलक्षितनिजान्तर्भाग भाग्योदये । तन्वङ्गीवपुषीन्द्रजालवदलं भ्रान्तौ सजन्त्यां दृशि, द्रागुन्मीलति तव यदि गले मोहस्य दत्तं पदम् ॥ ९३ ॥
r
यदि चेदुन्मीलत्युन्मिषति साधोः । कासौ ? तत्त्वद्द स्वरूपपरिज्ञानम् । कथम् ? द्राक् तत्क्षण एव । कस्यां सत्याम् ? दृशि दृष्टौ । किं कुर्वत्याम् ? सजन्त्यामनुरज्यन्त्याम् । क्क ? तन्वङ्गीवपुषि अङ्गना । किंविशिष्टे ? अलंभ्रान्तौ । भ्रान्तये विपर्ययज्ञानायालं समर्थमलंभ्रान्ति, तस्मिन् । तिकुप्रादयः " इति समासः । किंवत् ? इन्द्रजालवद् इन्द्रजाले यथा । तत्वतः कीदृशे तस्मिन् ? रेतः शोणितसंभवे शुक्रार्तवजन्मनि । पुनः कीदृशे ? बृहदित्यादि । बृहत्त्रोतांसि नासिकागुदादिरन्ध्राणि अणुस्त्रोतांसि रोमकूपविवराणि । बृहन्ति चाणूनि च बृहदणूनि । तानि च तानि स्रोतांसि च बृहदणुस्रोतांसि । तान्येव प्रणाल्यो जलनिर्गममार्गाः । साभ्यो गलन्तः स्रवन्तो गर्होद्वारा जुगुप्साया उद्भावकाः, अथवा गह
१ जैनेन्द्रसूत्रमिदम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org