________________
चतुर्थोऽध्यायः।
२५३
षये । मोक्षार्थासु क्रियासु न कश्चित्प्रावर्तिष्यतेत्यर्थः । यदि किम् ? यदि न व्यांजिण्यत् प्रकटमकरिष्यत् । किं तत् कर्तृ ? कैशिक केशसमूहः । किंविशिष्टम् ? उपस्कारोजवलमुपस्कारेणाभ्यङ्गस्नानधूपनादिप्रतियत्नेनोजवलं दीप्तम् । कम् ? स्वमात्मानम् । किं विशिष्टम् ? गवित्यादि । गवामनड्डाहीनां गर्मुतो मक्षिकाः । तासां व्यजनं विक्षेपणं तालवृन्तं गोगर्मुयजनम् । तस्यैकवंशिकं सगोत्रं तेन समानं, जुगुप्सास्पदत्वात् । केषामग्रे ? नृणाम् । नार्यश्च नरश्च नरस्तेषाम् । स्त्रीपुंसानामित्यर्थः । कस्मात् क्षणादचिरात् । पुंसामग्रे स्वीयः स्त्रैणश्वोपस्कारोज्वलः केशकलापः स्त्रीणां चाग्रे स्वीयः पौनश्च स्वं गोगमुन्यजनैकवंशिकं यदि सपदि ना. प्रकटयिष्यदित्यर्थः । एकः समानो वंशोन्वयोस्यास्तीति विगृह्य 'एकगो पूर्वाहन्नित्यम्' इति ठञ् । तथाऽऽसकृत् पुनःपुनस्ताम्बूलवासेनोत्कट. मुल्बणं सद् आस्यं मुखं नृणामग्रे क्षणात्स्वं यदि न व्यांजिष्यत् । किंविशिष्टम् ? पादूकृट्टहगन्धिम् । पादूकृतश्चर्मकारस्य गृहस्येव गन्धो यस्य तमेवम् । अमृते कस्त दस्थास्यतेति संबन्धः । तथा संस्काररम्या खानानुलेपनादिना रमणीया सती मूर्तिस्तनुर्यदि नृणामग्रे क्षणादात्मानं न व्यांजिष्यत् । किंविशिष्टम् ? अजिनकृतिप्रतिकृतिम् ? अमृते कस्तझुदस्थास्यत । अजिनकृतश्चर्मकारस्य दृतीरज्यमाना खल्वा अजिनकृद्दतिः । तस्याः प्रतिकृति प्रतिच्छन्दम् । तत्तुल्यमित्यर्थः॥
कामान्धस्य स्वोत्कर्षसंभावनं धिक्कुर्वन्नाहकुचौ मांसग्रन्थी कनककलशावित्यभिसरन्,सुधास्यन्दीत्यङ्गत्रणमुखमुखक्लेदकलुषम् । पिबन्नोष्ठं गच्छन्नपि रमणमित्यातवपथं, भगं धिक् कामान्धः स्वमनु मनुते स्वःपतिमपि ॥ ९२ ॥
धिग् निन्द्यमिदं कामाम्धकल्पनं, यतः कामान्धो मन्मथमूढो जनः स्वःपतिमपीन्द्रमपि किं पुनरितरजनं मनुते संभावयति । कथम् ? स्वमनु आत्मनः सकाशाद्धीनम् । किंकुर्वन् ? अभिसरनालिङ्गन् । को ? मांसग्रन्थी मांसग्रन्थ्याख्यगदाकारौ कुचौ स्तनौ । कथं कृत्वा ? कनक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org