________________
२५२
अनगारधर्मामृते
सङ्गः शरीरस्पर्शो भवति । किंवत् ? अग्निवत् संयमरत्नभस्सीकरणात् । न केवलमेवंविधं सूत्रं स्मर, किंतु वक्तव्यं च सूत्रातिरिक्तवचनं च स्मर त्वम् । कथम् ? इति एवं भवति । किं तत् ? नामापि संज्ञापि स्त्रीणाम् । किं पुनदृष्टयादिकमित्यपिशब्दार्थः । किंवत् ? ग्रहवद् भूतादिना तुल्यम् । _ स्वीसंसर्गदोषानुपसंहरनाहकिंबहुना चित्रादिस्थापितरूपापि कथमपि नरस्य । हृदि शाकिनीव तन्वी तनोति संक्रम्य वैकृतशतानि ॥९० ॥
किं बहुना । अलं बहुवचनेनेत्यर्थः । यतस्तनोति स्फीतीकरोति । कासौ ? तन्वी ललना । कानि ? वैकृतशतानि बहुन्विकारान् । कस्य ? नरस्य । किं कृत्वा ? संक्रम्य संचर्य । क ? हृदि । केव? शाकिनीव । कथम् ? कथमपि केनापि प्रज्ञापराधप्रकारेण । किंविशिष्टापि ? चित्रादिस्थापितरूपापि चित्रपुस्तकाष्ठादिष्वारोपिताकारापि । किं पुनर्मुख्यरूपेत्यपिशब्दार्थः । वैकृतशतानि
खंधो खंधो पभणइ लुंचइ सीसं ण याणए किंपि । गयचेयणो हु विलवइ उड्ढं जोएइ अह ण जोएइ ।। इत्यादीनि मन्त्रमहोदधौ शाकिन्याः कथितानि । स्त्रियास्तु प्राक्प्रबन्धेन इति स्वीसंसर्गदोषभावना ॥ __ अथैवं स्त्रीसङ्गदोषान् व्याख्यायेदानी पञ्चभिर्वृत्तैस्तदशुचित्वं प्रपञ्चथिघ्यन् सामान्यतस्तावत्केशपाशवक्राकृतीनामाहार्यरामणीयकसघोविपर्याससं. पादकत्वं मुमुक्षूणां निर्वेदनिदानत्वेन मुक्त्युद्योगानुगुणं स्यादित्यासूत्रयतिगोगर्मुझ्यजनैकवंशिकमुपस्कारोज्वलं कैशिकं, पादुकृट्टहगन्धिमास्यमसकृत्ताम्बूलवासोत्कटम् । मूर्तिश्चाजिनकृद्दतिप्रतिकृतिः संस्काररम्या क्षणाद्, व्यांजिष्यन नृणां यदि स्वममृते कस्तढुंदस्थास्यत ॥९१॥ तर्हि तदा क उदस्थास्यत उद्यममकरिष्यत् । क्क अमृते मोक्षवि.
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org