SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः। २५१ स्त्रीसंकथादोषं कथयति सम्यग्योगाग्निना रागरसो भस्सीकृतोप्यहो । उज्जीवति पुनः साधोर स्त्रीवासिद्धौषधीवलात्।।८७॥ अहो आश्चर्य, साधोः सिद्धिं साधयतः पुंसः सम्बन्धी रागरसो राग एव रसः पारदः। उज्जीवति उत्कृष्टं प्राणान् धारयति । कथम् ! पुनः । कस्मात् ? स्त्रीत्यादि । स्त्रियावाक् संलापः स्त्रीवाक । सैव सिद्धौषधी रसोजीवनसमर्थौषधिः । तच्छक्तिवशात् । किं विशिष्टोपि ? भस्मीकृतोपि दग्धोपि । केन ! सम्यग्योगाग्निना समीचीनसमाधिना सम्यक् प्रयोगवन्हिनेव। वरवर्णिनीपरिरम्भानुभावं भावयति पश्चादहिर्वरारोहादोःपाशेन तनीयसा। बध्यतेन्तः पुमान् पूर्व मोहपाशेन भूयसा ॥ ८८ ॥ पश्चान्मोहपाशबन्धनादूर्ध्व तनीयसा तनुतरेण वरारोहादोःपाशेनोत्तमस्त्रीभुजरज्ज्वा पुमान् बहिः शरीरदेशे बध्यते नियंत्र्यते वरारोहया आलिमयते इत्यर्थः । वर उत्कृष्ट आरोहो नितम्बोस्या असौ वरारोहा । अन्तरध्यात्म पुनः पूर्व वरारोहादोःपाशबन्धनात्प्राक् पुमान् बध्यते । केन ? भूयसा महता मोहपाशेन ॥ स्त्रीदृष्ट्यादिदोषानुपसंगृह्णन्नाहदृष्टिविषदृष्टिरिव दृकृत्यावत्संकथाग्निवत्सङ्गः। स्त्रीणामिति सूत्रं स्मर नामापि ग्रहवदिति च वक्तव्यम् ॥८९॥ भोःसाधो, स्मर अध्येहि स्वम् । किं तत् ? सूत्रं नानार्थसूचनप्रधान वाक्यम् । कथम् ? इति एवंभूतम् ।भवति । कासौ ? हर दृष्टिः । कासाम् ! स्त्रीणाम् । केव ? दृष्टिविषदृष्टिरिव सर्पविशेषचक्षुर्व्यापारो यथा सद्यः सवोपमर्दकत्त्वात् । तथा स्त्रीणां संकथा मिथो भाषणं भवति । किंवत् ! कृत्यावद् विद्याविशेषसदशी सहसा संयमप्राणहरत्वात् । तथा स्त्रीणां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy