________________
अनगारधर्मामृते
- द्रवति विलीयते । किं तत् ? सत्त्वं मनोगुणः । केषाम् ? पुंसाम् । कस्मात् ? रेतश्छलाच्छुक्रव्याजात् । कस्मात् ? योषाग्नियोगतो वह्वेरिव स्त्रियाः संपर्कात् । किंवत् ? घृतवद् घृतेन तुल्यम् । कथम् ? द्रुतं झटिति । तथा विवेको युक्तायुक्तविवेचनज्ञानम् । क्वापि क्वचिदज्ञायमाने स्थाने याति गच्छति । किंवत् ? सूतवत् पारदेन तुल्यम् ॥ कामिनीचेष्टाविशेषो महामोहावेशं करोतीति वभणित्या बोधयतिवैदग्धीमयनर्मवक्रिमचमत्कारक्षरत्स्वादिमाः, सभ्रूलास्यरसाः सितद्युतिकिरो दूरे गिरः सुभ्रुवाम् । तच्छ्रोणिस्तनभारमन्थरगमोद्दामकणन्मेखला,मञ्जीराकुलितोपि मक्षु निपतेन्मोहान्धकूपे न कः॥८६॥
वैदग्धीरसिकचेष्टा प्रकृता अनयोरिति वैदग्धीमयौ नर्म स्तरिः वक्रिमा कौटिल्यम् । नर्म च वक्रिमा च नर्मवक्रिमाणौ । वैदग्धीमयौ च तौ नर्मवक्रिमाणौ च वैदग्धीमयनर्मवक्रिमाणौ । ताभ्यां चमत्कारो विस्मयावेशः । तेन च क्षरन्निव स्रवन्निव स्वादिमा माधुर्य श्रोत्रहृदयाल्हादकत्वं यासां तास्तथोक्ताः । भ्रुवोर्लास्यं मसृणनृत्यं भ्रूलास्यम् । तस्य रसः। सह तेन वर्तमानाः स्मितद्युतिमीषद्धसितकान्ति किरन्ति विक्षिपन्तीतस्ततः प्रसारयन्तीति स्मितद्यतिकिरः। एवंभूताः सुभ्रवां कामिनीनां गिरोवाचो दूरे विप्रकृष्टे तिष्ठन्तु। किमेताभिरत्यन्तमोक्षमार्गप्रतिबन्धिनीभिरत्रोक्ताभिरि. त्यर्थः । किं पुनरेवमन्यदत्र वक्तव्यमस्तीत्याह-कोन निपतेनियतं गच्छेत् । क? मोहान्धकूपे । मोहस्तत्त्वानवबोधोऽन्धकूप इव दुःसहदुस्तरस्वात् । कथम् ? मञ्ज तत्क्षणे । किंविशिष्टोपि ? तदित्यादि । श्रोणिः कटी । स्तनौ कुचौ । श्रोणिश्व स्तनौ च श्रोणिस्तनम् । तासां सुभ्रुवां श्रोणिस्तनं तच्छ्रोणिस्तनम् । तस्य भारो गुरुत्वम् । तेन मन्थरो मन्दो गमो गमनम् । तेनोदाममुदारं कणन्ति रणझणत्कारं कुर्वन्ति मेखलामञ्जीराणि रशना. नपुराणि । तैराकुलितो विक्षिप्तमनाः किं पुनस्तादृशीभिस्तद्गीभिरित्यपिशब्दार्थः ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org