________________
चतुर्थोऽध्यायः।
२४९
संयमसेविनां चित्तं येन तेन निरीक्षणवचनादिप्रकारेणान्तर्निपत्य खिया विकार्यमाणं दुःसकप्रतीकारं भवतीति भीत्युत्पादनमुखेन सुतरां तत्परिहारे तान् जागरयति
चित्रमेकगुणस्नेहमपि संयमिना मनः।
यथातथा प्रविश्य स्त्री करोति स्वमयं क्षणात् ।। ८३ ॥ चित्रमाश्चर्य वर्तते, करोति स्त्री। किं तत् ? संयमिनां संयमाराधकामां मनश्चित्तम् । किविशिष्टम् ? स्वमयं स्वरूपात्मकम् । कमात् ? क्षणादचिरात् । किं कृत्वा ? प्रविश्य अन्तः संक्रम्य । कथम् ? यथातथा येन तेन प्रकारेण । किंविशिष्टमपि ? एकगुणस्नेहमपि । एक उत्कृष्टो गुणेषु सम्यग्दर्शनादिषु स्नेहोनुरागो यस्य तदेवम् । अथवा एकगुणे एकत्वे स्नेहो यस्य तत् । एकत्वरसिकमित्यर्थः । विरोधाभासपक्षे तु " न जघन्यगुणानाम्" इत्यभिधानादेकगुणस्नेहस्य केनापि सह बन्धो न स्यादिति द्रष्टव्यम् ॥ अल्पशोपि स्त्रीसंपर्कः संयतस्य स्वार्थभ्रंशं करोतीति शिक्षार्थमाह
कणिकामिव कर्कट्या गन्धमात्रमपि स्त्रियाः ।
स्वादुशुद्धां मुनेश्चित्तवृत्तिं व्यर्थीकरोत्यरम् ।। ८४॥ व्यर्थीकरोति । विगतो विरुद्धो वार्थः प्रयोजनं कर्मक्षपणं मण्डकाद्युत्पादश्च यस्याः सा व्यर्था । अव्यर्थी व्यथां करोति । किंतत् कर्तृ ? गन्धमात्रमपि अल्पमप्यालोकनस्पर्शनवचनादिकम् । पक्षे प्राणग्राह्यो गुणो गन्धः । पक्षद्वयेप्यसावेव वा । कस्याः ? स्त्रियाः । काम् ? चित्तवृत्ति मनःप्रवृत्तिम् । कस्य ? मुनेः। किंविशिष्टाम् ? स्वादुशुद्धां सानन्दवीतरागाम् । पक्षे मधुरशुभ्रां च । कथम् ? अरं क्षिप्रम्। कामिव ? कणिकामिव गोधूमचूर्णं यथा कर्कट्या एरोर्गन्धमात्रमपि व्यर्थीकरोति तथा स्त्रिया अपि। स्त्रीसांगत्यदोषं दृष्टांतेन स्पष्टयन्नाह
सत्त्वं रेतश्छलात्पुंसां धृतवद् द्रवति द्रुतम् । विवेकः सूतवत्कापि याति योषाग्नियोगतः ॥ ८५॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org