SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २४८ अनगारधर्मामृते हृधभिव्यञ्जती सद्यः स्वं पुंसोऽपाङ्गवल्गितः। सत्कार्यवादमाहत्य कान्ता सत्यापयत्यहो ॥ ८१ ॥ अहो कष्टमाश्चर्य वा, सत्यापयति सत्यं करोति । कासौ ? कान्ता प्रमदा । कम् ? सत्कार्यवादम् । असदकरणादुपादानग्रहणात् सर्वसंभवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच सत्कार्यम् ॥ इति सांख्यमतम् । कथम् ? आहत्य, हठान प्रमाणबलात् । किं कुर्वती ? अभिव्यञ्जती आविर्भावयन्ती । कम् ? स्वमात्मानम् । क ? हृदि । कस्य ? पुंसः। कथम् ? सद्यस्तत्क्षणात् । प्रेक्षकजनस्य मनः स्वरूपध्यानाविष्टं कुर्वतीत्यर्थः । कैः ? अपाङ्गवलिगतैर्नयनान्तपातैः ॥ कामिनीकटाक्ष निरीक्षणपराणां युक्तायुक्तविवेचनशून्यतां प्रभूतभवानुबधिनी वक्रमणित्योपपादयति नूनं नृणां हृदि जवानिपतनपाङ्गः, स्त्रीणां विषं वमति किंचिदचिन्त्यशक्ति । नो चेत्कथं गलितसद्गुरुवाक्यमत्रा, जन्मान्तरेष्वपि चकास्ति न चेतनाऽन्तः ॥ ८२॥ नूनमहमेवं मन्ये, वमत्युद्भिरति । कोसौ ? अपाङ्गो नेत्रत्रिभागाञ्चलः । कासाम् ? स्त्रीणाम् । किं तत् ? विषम् किंविशिष्टम् ? किंचिदलौकिकम् । पुनः किंविशिष्टम् ? अचिन्त्यशक्ति अतयंसामर्थ्य यतः । किं कुर्वन् ? निपतन चक्षुीरेण प्रतिफलन् । क्व ? नृणां हृदि पुंसां चेतसि । कस्मात् ? जवाद्वेगात् । नो चेत् तथा यदि न भवति तर्हि कथं न चकास्ति न प्रकाशते । कासौ ? चेतना संवित् । कथम् ? अन्तः अध्यास्मम् । केषु ? जन्मान्तरेष्वपि न केवलं तद्भवेऽन्यभवेष्वपि । किंविशिष्टा सती ? गलितसहुरुवाक्यमंत्रा सद्गुरुवाक्यमेव मनो विषापहारक्षमाक्षरसमूहः गलितः प्रच्युतो भ्रष्टप्रभावत्वं गतो वा सद्गुरुवाक्यमन्त्री यस्याः सैवम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy