________________
चतुर्थोऽध्यायः।
२४७
सुरते निराकुलासौ द्रवतामिव याति नायकस्याङ्गे। न च तत्र विवेक्तुमलं कोयं काहं किमेतदिति ॥ अपि चसमरसरसरंगुं गमिण जिह रइया वज्झंति।
समरसरसरंगुग्गमिण तिह जोइय सिझंति ॥ कामिनीकटाक्षनिरीक्षणस्यापातमात्ररमणीयत्वपरिणामात्यन्तदारुणत्वे वक्रभणित्युपपस्या प्रतिपादयति
चक्षुस्तेजोमयमिति मतेप्यन्य एवाग्निरक्ष्णो,रेणाक्षीणां कथमितरथा तत्कटाक्षाः सुधावत् । लीढा दृग्भ्यां ध्रुवमपि चरद्विष्वगप्यप्यणीयः,
स्वान्तं पुंसां पविदहनवदग्धुमन्तज्वलन्ति ॥ ८॥ वर्तते । कोसौ ? अग्निः । कयोः ? अक्षणोर्लोचनयोः । कासाम् ? एणा. क्षीणां कामिनीनाम् । किंविशिष्टः ? अन्य एव भासुररूपोषणस्पर्शगुणयो. गित्वसंयुक्तबाह्यस्थूलस्थिरमूर्तद्रव्यदाहित्वलक्षणादग्नेविलक्षण एव । क ? चक्षुस्तेजोमयमिति मतेपि । चक्षुस्तैजसं रश्मिवत्वात्प्रदीपवदिति वैशेषिक दर्शने । अपिशब्दादभ्युपगमसिद्धान्ताश्रयणेन विचार्यमाणे इति लक्षयति । इतरथा अन्यश्चेन्न स्यात्तदा कथमन्तलन्ति अध्यात्मं दीप्यन्ते । के तत्कटाक्षा एणाक्षीणामपाङ्गनिरीक्षणानि । किंवत् ? पविदहनवद् वनाग्निवत् । किं कर्तुम् ? दग्धुं भस्मीकर्तुम् । किं तत् ? स्वान्तं मनः । केषाम् ? पुंसाम् । किंविशिष्टमपि ? ध्रुवमपि नित्यरूपतयाऽविकार्यमपि, तथा चरद्विष्वगपि समन्तादलातचक्रवद्रमदपि । तथाप्य ऽणीयः पर. माणोरप्यतिशयेन सूक्ष्ममपि, योगिभिरपि दुर्लक्ष्यत्वात् । किंविशिष्टाः सन्तः! लीढा आस्वादिताः । काभ्याम् ? दृग्भ्यां चक्षुाम्। किंवत् ? सुधावदमृतमिव ॥
कामिन्याः कटाक्षनिरीक्षणद्वारेण तत्क्षणानरहृदये स्वरूपाभिव्यक्तिकर्तृ. स्वशक्ति विदग्धोक्त्या प्रकटयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org