________________
अनगारधर्मामृते
उपपत्तिमात्रार्थमङ्गनाग्रहणं, स्त्रीमात्रसंसर्गेपि सद्वृत्तविप्लवोपलम्भात्। अत एव त्याज्याः स्त्रिय इति सामान्येनोक्तम् । तथा चोक्तम्
द्वयमेव तपःसिद्धौ बुधाः कारणमूचिरे ।
यदनालोकनं स्त्रीणां यश्च संग्लापनं तनोः । कामिनीकटाक्षनिरीक्षणादिपरम्परया पुंसस्तन्मयस्वपरिणतिमावेदयतिसुभ्रूविभ्रमसंभ्रमो भ्रमयति स्वान्तं नृणां धर्तवत्, तस्माद्याधिभरादिवोपरमति ब्रीडा ततः शाम्यति । शङ्का वन्हिरिवोदकात्तत उदेत्यस्यां गुरोः स्वात्मवद्, विश्वासः प्रणयस्ततो रतिरलं तस्मात्ततस्तल्लयः॥७९॥ भ्रमयति अन्यथा वृत्तिं करोति व्याकुलयति वा । कोसौ ? सुभ्रविभ्रमसंभ्रमः । शोभने दर्शनमात्रान्मनोहरणक्षमे ध्रुवौ यस्याः सा सुपूर्वराङ्गना । तस्या विभ्रमो रागोद्रेकाद् भूपर्यन्तविक्षेपः । तत्र संभ्रमो निरीक्षणादरः । किम् ? स्वान्तं मनः । केषाम् ? नृणां पुंसाम् । किंवत् ? धूर्तवत् । धत्तूरकोपयोगो यथा । तस्मात्तजन्यस्त्रास्तभ्रमपरिणामादुपरमति निवर्तते । कासौ ? व्रीडा लज्जा । कस्मादिव ? व्याधिभरादिव रोगोद्रेकतो यथा । ततो नीडोपरमणात् शाम्यति निर्वाति । कासौ ? शङ्का भयं, " कामातुराणां न भयं न लज्जा" इत्यभिधानात् । क इव कस्मात् ? वह्निरिवोदकादग्निर्यथा जलात् । ततः शङ्काशमनादुदेति उद्गच्छति । कोसौ ? विश्वासो विश्रम्भः । कस्याम् १ अस्यां सुश्रुवि । कस्मारकेवेत्याह-गुरोरध्यात्मतत्त्वोपदेशकात् स्वात्मवनिजात्मनि यथा। अस्यामित्याधुत्तरत्रापि योज्यम् । ततो विश्वासोद्मनाद्भवति । कोसौ ? प्रणयः प्रेमपरिचयः । कस्याम् ? अस्याम् । किंवत् ? गुरोः स्वात्मवत् । तस्मात्प्रणयभावाद्भवति । कासौ ? रतिरस्यां तद्वदेव । कथं कृत्वा ? अलं पर्याप्तम् । ततो रतिपर्याप्तीभावाद्भवति । कोसौ ? तल्लयः। तस्यां सुभ्रुचि गुरोः स्वारमनीव लयः श्लेषः । समरसीभाव इत्यर्थः । उक्तं च
लब्धायतिप्रगल्भा रतिकर्मणि पण्डिता विभुर्दक्षा । आक्रान्तनायकमना नियूंढविलास विस्तारा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org