________________
चतुर्थोऽध्यायः ।
२४५
तम् । क्व ? सरिति नद्याम् । किंविशिष्टा सती ? रक्ता आसक्ता । क्क, पके कुत्सिते पादविकले पुंसि । तथाऽवधीज्जघान । कासौ ? ( २ ) गोपवती । कम् ? कान्तं पतिम् । किं कुर्वन्तम् ? द्रवन्तं पलायमानम् । किं कृत्वाऽवधीत् ? छित्त्वा कर्तित्वा । किं तत् ? सपत्नी शिरः प्रतिस्त्रियाः शीर्षम् । तथा (३) वीरवती स्वोष्ठं निजमधरं पतिच्छिन्नं भर्त्रा खण्डितमाख्यत् कथयतिस्म । किलेत्यागमोक्तौ । किंविशिष्टम् सन्तं ? दलितं खण्डितम् । केन ? शूलस्थेन शूले तिष्ठता मलिम्लुचेनाङ्गारकनाना चौरेण । इति स्त्रीदोषभावना ।
अथ त्रयोदशभिः पचैः स्त्रीसंसर्गदोषान् व्याख्यातुकामस्तासामुपपत्तिपूर्वकं दूरपरिहार्यत्वमादावनुशास्ति
सिद्धिः काप्यजितेन्द्रियस्य किल न स्यादित्यनुष्ठीयते, सुष्वामुत्रिक सिद्धयेऽक्ष विजयो दक्षैः स च स्याद्भुवम् । चेतः संयमनात्तपः श्रुतवतोध्येतच्च तावद्भवेद्, यावत्पश्यति नाङ्गनामुखमिति त्याज्याः स्त्रियो दूरतः ॥ ७८ ॥
त्याज्याः परिहार्या मुमुक्षुभिः । काः ? स्त्रियः । कस्मात् ? दूरतः । कुतो हेतोः इति यतः कापि काचिदैहिकी पारत्रिकी वा सिद्धिरिष्टार्थप्राप्तिर्न स्यात् । कस्य ? अजितेन्द्रियस्यावश्याक्षस्य । किलेल्यागमोक्तौ । तथा च नीत्यागमः
"नाजितेन्द्रियस्य कापि कार्यसिद्धिरस्ति" इति ।
इति हेतोरनुष्ठीयते क्रियते । कोसौ ? अक्षविजयश्चक्षुरादीनां विशेघेण जयः । कैः ? दक्षैरामुत्रिकार्थसाधनोद्यतैः । कथम् ? सुष्ठु सुतराम् । कस्यै ? आमुत्रिक सिद्धये परलोकार्थसिद्ध्यर्थम् । स चाक्षविजयो ध्रुवं निश्चितं स्यात् । कस्मात् ? चेतः संयमनान्मनोनिरोधात् । एतच्च चेतःसंयमनं तावद्भवेत् । कस्य ? तपःश्रुतवतोपि किं पुनस्तपः श्रुतरहितस्य । यावत्किम् ? यावन्न पश्यति नालोकयति तपः श्रुतवानपि । किं तत् ? अङ्गनामुखम् । प्रशस्तमङ्गं यस्याः साऽङ्गना । तस्या वक्त्रम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org