________________
अनगारधर्मामृतेस्त्रीणां रागद्वेषयोः परां कोटिमादेष्टुमुपपत्तिं दर्शयतिव्यक्तं धात्रा भीरुसर्गावशेषौ रागद्वेषौ विश्वसर्गे विभक्तौ । यद्रक्ता स्वानप्यमन् व्येतिपुंसे पुंसोपि स्त्री हन्त्यसून द्राग्विरक्ता
व्यक्तमहमेवं मन्ये, विभक्तौ विभागेनावस्थापितौ । को ? रागद्वेषौ प्रेमविरोधौ । केन ? धात्रा सृष्टिकृता। व? विश्वसर्गे जगतः सृष्टौ । किंविशिष्टो ? भीरुसर्गावशेषौ स्त्रीसृष्टेरुद्वृत्तौ । रागद्वेषमयीः स्त्रियः सृष्ट्वाऽवशिष्टाभ्यां रागद्वेषाभ्यां जगत् स्रष्टा युनक्तिस्मेत्यर्थः । यद्यस्माद् व्येति विलभते ददातीत्यर्थः । कासौ ? स्त्री । कान् ? स्वानात्मीयानसूनपि प्राणानपि । किं पुनर्धनादिकमित्यपिशब्दार्थः । कस्मै ? पुंसे पुरुषाय । किंविशिष्टा सती ? रक्ता पुंसि बद्धानुरागा। विरक्ता सती पुनः स्त्री पुंसोप्यसून् हन्ति संहरति । कथम् ? द्राग् विरक्तिसमनन्तरमेव । उक्तं च
ददाति रागिणी प्राणान् हरति द्वेषिणी पुनः । रागो वा यदि वा द्वेषः कोपि लोकोत्तरः स्त्रियः॥ सुचरितानां सदाचारविशुद्ध्यर्थं दृष्टान्तमुखेन स्त्रीचरित्रभावनामुपदिशति
रक्ता देवरतिं सरित्यवनिपं रक्ताऽक्षिपत्पङ्गुके, कान्तं गोपवती द्रवन्तमवधीच्छित्त्वा सपत्नीशिरः। शूलस्थेन मलिम्लुचेन दलितं खोष्ठं किलाख्यत्पति,च्छिन्नं वीरवतीति चिन्त्यमबलावृत्तं सुवृत्तैः सदा॥७७ ॥ सुवृत्तः सुचरितैरबलावृत्तं स्त्रीचरितं सदा नित्यं चिन्त्यं भावनीयम् । कथम् ? इति अनेन संप्रदायगम्यकथात्रयप्रकारेण । तथाहि । अक्षिपत् पातयति स्म । कासौ ? (१) रक्ता रक्तासंज्ञिता राज्ञी । कम् ? अवनिपं राजानम् । किमाख्यम् ? देवरतिं देवरतिरिति संज्ञि
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org