________________
चतुर्थोऽध्यायः।
पश्यन्ति योगिनोपि । किं तत् ? स्त्रीचरितम् । अत्रोपपत्तिमाह-अन्यथा पश्यन्ति चेद्योगिनः स्त्रीचरितं तदा कुतः कस्माद्धेतोर्विश्वं जगद्वर्तते ? किंविशिष्टम् ? अतद्विद्यं स्त्रीचरितज्ञानशून्यं महर्षिपूर्वकत्वात्सर्वविद्या. नाम् । श्लोकः
मायागेहं ससंदेहं नृशंसं बहुसाहसम्।
कामान्धैः स्त्रीमनो लक्ष्यमलक्ष्यं योगिनामपि ॥ स्त्रीणां दम्भादिदोषभूयिष्ठतया नरकमार्गानेसरत्वं निवेदयन् दुर्दैवस्य तत्पथप्रस्थानसूत्रधारतां प्रत्याचष्टेदोषा दम्भतमस्सु वैरगरलव्याली मृषोद्यातडिन्,-- मेघाली कलहाम्बुवाहपटलप्रावृड् वृषौजोज्वरः । कन्दज्वररुद्रभालगऽसत्कर्मोर्मिमालानदी, स्त्री श्वभ्राध्वपुरःसरी यदि नृणां दुर्दैव किं ताम्यसि ।। ७५ ॥
दम्भतमस्सु प्रतारणतिमिरेषु प्रसार्येषु दोषा रात्रिः । वैरगरलव्याली विद्वेषविष उद्गार्ये भुजङ्गी । मृषोद्यातडिन्मेघाली मृषावादविधुति चमत्कार्यायां कादम्बिनी । कलहाम्बुवाहपटलप्रावृत् युद्धमेघव्यूहे समुद्भाव्ये वर्षा । वृषौजोज्वरः। वृषो धर्मः स एव ओजः शुक्रान्तधातुपरमतेजः "ओजस्तु तेजो धादूनां शुक्रान्तानां परं स्मृतम्" इत्यभिधानात् । वृषौजसि संहार्ये ज्वरः । तदुक्तम्
ज्वरो रोगपतिः पाप्मा मृत्युरोजोऽशनोऽन्तकः । क्रोधो दक्षाध्वरध्वंसी रुद्रो+नयनोद्भवः॥ कन्दर्पज्वररुद्रभालहक् कामज्वरजन्ये त्रिलोचनतृतीयलोचनम् । असत्कर्मोमिमालानदी सावद्यकर्मतरङ्गपतौ क्रियासमभिहारेण प्रवायामाऽऽपगा । एवंविधसप्तविशेषणविशिष्टा स्त्री यद्यस्ति । किंविशिष्टा ? श्वभ्राध्वपुरःसरी नरकमार्गे पुरोगमा । केषाम् ? नृणां पुंसाम् । तर्हि हे दुर्दैव दग्धावधे, किं ताम्यसि किमात्मानमायासयसि त्वं, तथाविधना. यैव पुंसां नरके प्रवशस्य सिद्धत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org