________________
२४२
अनगारधर्मामृते
विद्वानेवेति । तत्र केत्याह-या योषित्पातयति प्रक्षिपति । कान् ? पत्यादीन् भर्तृपुत्रपितृगुर्वादीन् । क ? व्यसनार्णवे श्रेयःप्रत्यावर्तनसमुन्द्रे । किविशिष्टा सती ? स्मरवशा। सरे कामे वशः पारतंत्र्यं यस्याः । तथा याऽञ्जसा परमार्थेन न तु कैतवेन रुष्टा कुपिता सती न परं न केवलं प्राणिनां महत्त्वं माहात्म्यमस्यत्यपनुदति किंतु प्राणानपि जीवितमपि । तथा या तुष्टापि प्रीतापि सती पिनष्टि संचूर्णयति सर्वपुरुषार्थोपमर्दकरत्वात् । कम् ? नरं पुरुषम् । क ? अत्र इह लोकेऽमुत्र च परलोके । किं कुर्वती ? चेष्टयन्ती प्रवर्तयन्ती नरमेव । कस्मात् ? इष्टितः स्वेच्छातः॥
स्त्रीणां निसर्गवञ्चकत्वेन दुःखैककारणत्वमुपदर्शयन् लोकस्य सततमुग्धस्वमुद्भावयतिलोकः किं नु विदग्धः किं विधिदग्धः स्त्रियं सुखाङ्गेषु । यद्धरि रेखयति मुहुर्विश्रम्भं कृन्ततीमपि निकृत्या ।। ७३॥
नु अहो, लोकः पृथग्जनः किं विदग्धो व्यवहारचतुरः किं वा विधिदग्धो वर्तते इति वितळ पृच्छाम्यहम् । विधिना दैवेन दग्धो मतिभ्रष्टः कृतो विधिदग्धः । विधिर्विहिताचरणं, दग्धो भस्मीकृतोऽस्येति वा । कुत एतत्पृच्छयते इत्याह—यद्यस्माद्रेखयति रेखावतीं करोति गणयतीत्यर्थः । कोसौ ? लोकः । काम् ? स्त्रियम् । क्व ? धुरि । केषु ? सुखाङ्गेषु सुखसाधनेषु प्ररूप्यमाणेषु प्रथमं प्ररूपयतीत्यर्थः । किं कुर्वतीमपि ? कृन्ततीमपि छिन्दतीमपि । कम् ? विश्रम्भं विश्वासम् । कया ? निकृत्या वञ्चनया । कथम् ? मुहुर्वारंवारम् ॥ स्त्रीचरित्रं योगिनामपि दुर्लक्ष्यमिति लक्षयतिपरं सूक्ष्ममपि ब्रह्म परं पश्यन्ति योगिनः। न तु स्त्रीचरितं विश्वमतद्वियं कुतोन्यथा ।। ७४ ॥ पश्यन्ति स्वसंवेदनप्रत्यक्षेणानुभवन्ति । के ? योगिनोष्टाङ्गयोगभाजो मुमुक्षवः । किं तत् ? ब्रह्म ज्ञानम् । किंविशिष्टम् । परं परमात्मानमित्यर्थः। किंविशिष्टम् ? परमत्यर्थं सूक्ष्ममपि । मनसोप्यगम्यमपीत्यर्थः । न तु
Jain Education International
For Private & Personal Use Only
____www.jainelibrary.org