________________
चतुर्थोऽध्यायः।
२४१
स्वात् 'न कामासक्तस्यास्ति किंचिच्चिकित्सितम् ' इति वचनात् । कथं विधमेत् ? इति अनेनोपायेन । धिर निन्द्योहं, यतोऽस्मिन्संसारे किं किं दुःखं निगोदादियोनिसंभवं नाधिगतो न प्राप्तोहम् । सर्व तन्मया भुक्तमित्यर्थः । केन हेतुना? अनेन प्रतीयमानेन नारीरिरंसासंस्कारेण स्त्रियां रन्तुमिच्छाभावनया । किंविशिष्टेन ? निरित्यादि । निःसंकल्पा अन्तर्जल्पसंपृक्तोत्प्रेक्षाजालान्निष्क्रान्ता आत्मसंवित् स्वात्मानुभूतिः । सैव तजं वा सुखं शर्म । तदेव रसः पारदः। तत्र शिखी ज्वलनस्तदुत्सारकत्वात् । कियन्तं कालम् ? अद्ययावद् वर्तमानसमयावधि । यत एवं तत्तस्मान्मजामि ब्रुडामि । कोसौ ? अयं स्वसंवेदनप्रत्यक्षेण प्रतीयमानोऽहम् । कस्मिन् ? अस्मिन् स्वसंवेद्यमाने निजात्मनि स्वचिद्रूपे । किंविशिष्टे ? सद्यस्तत्प्रबोधच्छिदि सपदि नारीरिरंसासंस्कारप्राकट्यापनोदके । पुनः किंविशिष्टे ? सहजचिदानन्दनिष्यन्दसान्द्रे । चिद् ज्ञानम् । तदेवानन्दः । सहजो नैसर्गिकश्चासौ चिदानन्दश्च । तस्य निष्यन्दः पुनःपुनराविर्भावः । तेन सान्द्रे घने। इति कामदोषभावना ।
एवं कामदोषान्व्याख्यायेदानी पद्भिः पयैः स्त्रीदोषान् व्याचिख्यासुस्तदोषज्ञातृत्वमुखेन पाण्डित्यप्रकाशनाय मुमुक्षुमभिमुखीकुर्वन्नाह
पत्यादीन् व्यसनाणवे स्मरवशा या पातयत्यञ्जसा, या रुष्टा न महत्त्वमस्यति परं प्राणानपि प्राणिनाम् । तुष्टाप्यत्र पिनष्ट्यमुत्र च नरं या चेष्टयन्तीष्टितो, दोषज्ञो यदि तत्र योषिति सखे दोषज्ञ एवासि तत् ॥७२॥ हे सखे मित्र, यद्यसि भवसि त्वम् । किंविशिष्टः ? दोषज्ञः । दोषानपकारकधर्मानानानः । क्क ? तत्र तस्यां प्रानिर्दिष्टदोषायां योषिति स्त्रियाम् । तदसि त्वम् । किंविशिष्टः ? दोषज्ञ एव विद्वानेव । वस्तुषु हि यो दोषान् यथावस्थितान् जानाति स दोषज्ञो विद्वानिति प्रसिद्धः । तथा चाभिधानं “ विद्वान् विपश्चिद् दोषज्ञः" इति । अहं तु मन्ये, सर्वदूष्यदोषान् जानानोपि यदि स्त्रीदोषान् न जानाति तदा न विद्वान् । यः पुनरन्यत्र दोषान् जाननजानन्नपि वा यदि स्त्रीदोषान् जानाति तदा
अन. ध. १६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org