________________
२४०
अनगारधर्मामृते
Amoor
अपि च
चन्द्रः पतङ्गति भुजङ्गति हारवल्ली,नक् चन्दनं विषति मुर्मुरतीन्दुरेणुः । तस्याः कुमार भवतो विरहातुरायाः, किं नाम ते कठिनचित्त निवेदयामि ॥ कामोद्रेकस्य तरसा समग्रगुणग्रामोपमर्दकत्वं निवेदयति
कुलशीलतपोविद्याविनयादिगुणोच्चयम् ।
दन्दह्यते सरो दीप्तः क्षणात्तृण्यामिवानलः ॥ ७० ॥ दन्दह्यते गर्हितं दहति । गहीं चात्र लौकिकालौकिकगुणग्रामयोरविशेषेण भस्मीकरणादवतरति। कोसौ ? दीप्तोज्वलितः स्मरः कामः । कम् ? कुलादिगुणग्रामम् । कस्मात् ? क्षणात् क्षणमात्रात् । क इव काम् ? अनलोनिस्तृण्यां तृणसंहतिं यथा । कुलं संतानक्रमेणागतमाचरणम् । शीलमाचारः शौचं तपःकरणान्तःकरण नियमानुष्ठानम् । विद्या ज्ञानम् । विनयस्तपःश्रुतादिवृद्धेषु नीचैराचरणम् । आदिशब्देन प्रतिभामेधास्मृतिवादित्ववाग्मित्वतेजस्वित्वारोग्यबलवीर्यलज्जादाक्षिण्यादयो गृह्यन्ते । कुलं च शीलं च तपश्च विद्या च विनयश्व । ते आदयो येषां ते कुलादयः । ते च ते गुणाश्वोपकारकधर्माः । तेषामुच्चयः संघातः। __ आसंसारप्रवृत्तमैथुनसंज्ञासमुद्भूताखिलदुःखानुभवधिक्काराग्रतः सरन्त. निग्रहोपायमावेदयन्नाहनिःसंकल्पात्मसंवित्सुखरसशिखिनानेन नारीरिएंसा,संस्कारेणाद्ययावद्धिगहमधिगतः किं किमस्मिन्न दुःखम् । तत्सद्यस्तत्प्रबोधच्छिदि सहजचिदानन्दनिष्पन्दसान्द्रे, मज्जाम्यसिनिजात्मन्ययमिति विधमेकाममुत्पित्सुमेव ॥७॥ विधमेनिगृह्णीयात्साधुः । कम् ? कामम् । किंविशिष्टम् ? उत्पि. सुमेव उत्पत्त्यभिमुखमेव, न तूभृतं, तथाभूतस्य तस्याशक्यप्रती कार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org