________________
२३८
अनगारधर्मामृते
क ? स्त्रीपङ्के योषित्कर्दमे । किंविशिष्टे ? कृमिकुलकलङ्के । कृमयो योनिजन्तवः । वात्स्यायनोप्याह
रक्तजाः कृमयः सूक्ष्मा मृदुमध्याधिशक्तयः।
जन्मवर्त्मसु कण्डूतिं जनयन्ति तथाविधाम् ॥ कृमीणां कुलं संघातः कृमिकुलम् । तदेव कलङ्को लान्छनं यस्य । किं. विशिष्टः सन् ? तत्र रिरंसुः संपन्न इत्याह-विधुरितो विक्लवीभूतः । क्व सति ? स्मरशिखिनि कामानौ। किंकुर्वति ? उच्चैरतिशयेन ज्वलति दीप्यमाने । किं कर्तुमिव ? भोक्तुं भक्षयितुमिव । काम् ? चितं चेतनाम् । किंविशिष्टाम् ? कृत्स्ना निःशेषाम् । केन ज्वलति ? अविद्येत्यादि । मनस्कारश्चित्तप्रणिधानम् । स एव मरुद्वायुर्मनस्कारमरुत् । अविद्या देहात्मनोरेकत्वप्रत्ययः। तत्प्रयुक्ता आशा भाविविषयाकाङ्क्षा । पक्षे नास्ति विद्या ज्ञानं यासु ता अविद्या अनिर्धारितविशेषाः । आशा दिशः । तासु चक्रप्रसृमरः । चक्रेण संघातेन संतानेन पक्षे मण्डलाकारेण प्रसृमरः प्रसरणशीलोऽविद्याशाचक्रप्रसृमरः । स चासौ मनस्कारमरुञ्च । तेन हेतुना, देदीप्यमाने कामाग्नौ सत्याकुलीभूतः पुमान् कर्दम इव योषिति रन्तुमिच्छुः सर्वमकृत्यं रभसेन करोतीत्यर्थः।
ग्राम्यसुखोत्सुकबुद्धेर्धनार्जनकर्मसाकल्यश्रमप्रगुणत्वमशेषयोषिदयन्त्रणान्तःकरणत्वं च व्याचष्टे
आपातमृष्टपरिणामकटौ प्रणुनः, किंपाकवन्निधुवने मदनग्रहेण । किं किं न कर्म हतशर्म धनाय कुर्यात,
क क स्त्रियामपि जनो न मनो विकुर्यात् ।। ६८ ॥ जनो लोकः किं किं हतशर्म नाशितसुखं कर्म कृष्यादिव्यापारं धनाय धनं लब्धुं न कुर्यात् ? सर्वमपि विदध्यादित्यर्थः । किं विशिष्टः सन् ? प्रणुन्नः प्रकर्षेण प्रेरितः । केन ? मदनग्रहेण । मदनः कन्दर्पो ग्रहो भूतादिरिव पारतन्त्र्यनिमित्तत्वात् । क प्रणुन्नः ? निधुवने मैथुने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org