SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः। . २३७ दाहः सर्वाङ्गीणः परितापः । (६) अशनारुचिरन्नानभिलाषः । (७) मूर्जा नष्टचेष्टता। उन्मादो मनोविभ्रमः । (१) मोहो वैचित्यम् । (१०) अन्तो नाशः । मरणमिति यावत् । आयतश्चासावुच्छासश्चायतोच्छासः। अशनस्यारुचिरशनारुचिः। शुक् च दिक्षा चायतोच्छ्रासश्च ज्वरश्व दाहश्वाशनारुचिश्चेत्येताः षटू । किंविशिष्टाः? समूर्योन्मादमोहान्ताः। मूर्छा चोन्मादश्च मोहश्चान्तश्च मूर्योन्मादमोहान्ताः । सह तैश्चतुर्भिर्वर्तमानाः शुगादयः षट् । ता एता दश दशा अभीष्टकामिनीमलब्ध्वा कामुकः प्रामोतीति संबन्धः । उक्तं च शोचति प्रथमे वेगे द्वितीये तां दिदृक्षते । तृतीये निःश्वसित्युच्चैश्चतुथै ढोकते ज्वरः॥ पञ्चमे दह्यते गात्रं षष्ठे भक्तं न रोचते । प्रयाति सप्तमे मूर्खामुन्मत्तो जायतेष्टमे॥ न वेत्ति नवमे किंचिम्रियते दशमेऽवशः। संकल्पस्य वशेनैव वेगास्तीवास्तथान्यथा ॥ लोके विमाः कामस्य दशावस्था: आदावभिलाषः स्याञ्चिन्ता तदनन्तरं ततः स्मरणम् । तदनु च गुणसंकीर्तनमुद्वेगोथ प्रलापश्च ॥ उन्मादस्तदनु ततो व्याधिर्जडता ततस्ततो मरणम् । इत्थमसंयुक्तानां रक्तानां दश दशा ज्ञेयाः ॥ कामार्तस्य किमप्यकृत्यं नास्तीति ज्ञापयति अविद्याशाचक्रप्रसृमरमनस्कारमरुता, ज्वलत्युच्चै क्तुं सरशिखिनि कृत्स्नामिव चितम् । रिरंसुः स्त्रीपङ्के कृमिकुलकलङ्के विधुरितो, नरस्तनास्त्यसिनहह सहसा यन कुरुते ॥६७॥ अहहेत्यद्भुते खेदे च । अस्मिन् लोके तन्नास्त्यकृत्यं नरः पुमान् सहसा रभसेन यन्न कुरुते । किं चिकीर्षुः ? रिरंसुः क्रीडितुमिच्छुः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy