________________
२३६
अनगारधर्मामृते
संधिविश्लेषणं तन्द्रा पञ्चमे पर्वभेदनम् । दाहो हिध्मा च षष्ठे तु हृत्पीडा गात्रगौरवम् ॥ मूर्छा विपाकोऽतीसारः प्राप्य शुकं तु सप्तमे । स्कन्धपृष्ठकटीभङ्गः सर्वचेष्टानिवर्तनम् ॥
57
--
इति । तदेवा पूर्वत्वमुद्यद्दशेत्यादिना समर्थयते - दुःखमेव गरलं विषं दुःखगरलम् । उद्यन्तः प्रतिक्षणमारोहन्तो दश शोचनादयो वेगा यस्य तदुद्यद्दशवेगं दुःखगरलं यस्यासावुद्यद्दशवेगदुःखगरलः । एवंभूतः कन्दर्पसर्पः कामपन्नगो ही कष्टं दन्दष्टि गर्हितं दशति । गर्हा चात्र वृद्धेष्वप्यतिज्वलनादनौचित्यप्रवृत्ता । किं दन्दष्टि ? जगद् बहिरात्मप्राणिगणम् । कथं कृत्त्वा ? समं युगपत्सर्वं वा । यल्लोकः
इच्छि सरासणु कुसुम सरु अंगु ण दीसइ जासु । हलितसु मयणमहाभडहु तिहुवणि कवणु ण दासु ॥ अपि च
अनङ्गः पञ्चभिः पौष्पैर्विश्वं व्यजयतेषुभिः । इत्यसंभाव्यमेवैतद्विचित्रा वस्तुशक्तयः ॥
किंविशिष्टम् ? यतोऽपेतमपगतम् । कस्मात् ? हठद्विवेकगरुडकोडात् । विवेकः कामदोषादि विवेचनप्रणिधानम् । स एव गरुडस्ताक्ष्यों विवेकगरुडः । हठन् देदीप्यमानो बलात्कारयुक्तो वा विवेकगरुडः । तस्य कोडं भुजद्वयान्तरालभागस्तस्मात् ।
कामस्य दश वेगान्सहेतुकानाह-
शुग्दिदृक्षायतोच्छ्वासज्वरदाहाशनारुचीः ।
समूछोन्माद मोहान्ताः कान्तामाप्नोत्यनाप्य ना ॥ ६६॥
आप्नोति लभते । कोसौ ? ना पुरुषः । काः ? शुगित्यादि दशावस्थाः । किं कृत्वा ? अनाप्य अलब्ध्वा । काम् ? कान्तामिष्टाङ्गनाम् | ( १ ) शुक् शोकः । ( २ ) दिदृक्षा द्रष्टुमिच्छा । ( ३ ) आयतोच्वासो दीर्घमुच्छ्रसनम् । ( ४ ) ज्वरः संतापरूपो व्याधिः । ( ५ )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org