________________
चतुर्थोऽध्यायः।
पणिदरसभोयणाए तस्सुवओगा कुसीलसेवाए। वेदस्तुदीरणाए मेहुणसण्णा हवे चउहिँ ॥ बहिरात्मप्राणिगणस्य कामदुःखाभिभवदुर्निवारतामनुशोचतिसंकल्पाण्डकजो द्विदोषरसनश्चिन्तारुषो गोचर,च्छिद्रो दर्पबृहद्रदो रतिमुखो ह्रीकञ्चुकोन्मोचकः । कोप्युद्यद्दशवेगदुःखगरलः कन्दर्पसर्पः समं, ही दन्दष्टि हठद्विवेकगरुडकोडादपेतं जगत् ॥ ६५॥ इष्टाङ्गनादर्शनादिना तां प्रत्युत्कण्ठागर्भो मनोव्यापारः संकल्पः । यन्नखत्वक्सदृशमुपात्तकाठिन्यं शुक्रशोणितपरिवरणं परिमण्डलं तदण्डम् । अण्डमेवाण्डकम् । संज्ञायां कः । संकल्प एवाण्डकं संकल्पाण्डकम् । तत्र जातः संकल्पाण्डकजः । द्वौ रागद्वेषाख्यौ दोषावेव रसने जिह्वे यस्य स द्विदोषरसनः । इष्टाङ्गनागुणसमर्थनतद्दोषपरिहार्थो विचारश्चिन्ता । चिन्तैव रुषा रोषो यस्य स चिन्तारुषः । गोचरा रूपादि विषयाः । त एव छिद्राणि वल्मीकादिगतप्रवेशरन्ध्राणि यस्य स गोचरच्छिद्रः । दो वीर्योद्रेकः बृहन्महान् रदो दन्तो बृहद्दो दंष्ट्रा । सा चैकतालुगता । दर्प एव बृहद्रदो यस्यासौ दर्पवृहद्रदः। रतिर्मनसः प्रीत्यावस्थितिः । देशादिष्वनौत्सुक्यमिति यावत् । रतिरेव मुखं वक्रं यस्य स रतिमुखः । ह्रीर्लज्जा । हीरेव कञ्जुको निर्मोको ह्रीकञ्चकः । तस्योन्मोचको वियोजको ह्रीकञ्चकोन्मोचकः । कोप्यपूर्वः । सप्तवेगविषो हि शास्त्रे सर्पः प्रसिद्धः । यदाह वाग्भट:
" पूर्व दर्वीकृतां वेगे दुष्टं श्यावीभवत्यसृक् । श्यावता तेन वक्रादौ सर्पन्तीव च कीटकाः॥ द्वितीये ग्रन्थयो वेगे तृतीये मूर्धगौरवम् ।
दुर्गधो दंशविक्लेदश्चतुर्थे ष्ठीवनं वमिः॥ १ पुष्टिदरसभोजनेन तस्योपयोगेन कुशीलसेवया । वेदस्योदीरणया मैथुनसंज्ञा भवच्चतुर्भिः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org