SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २३४ अपि च परितप्यते विषीदति शोचति विलपति च खिद्यते कामी । नक्तंदिवं न निद्रां लभते ध्यायति च विमनस्कः ॥ लोकेपि ―― अनगारधर्मामृते— उत्कण्ठा परितापो रणरणकं जागरस्तनोस्तनुता । फलमिदमहो मयाप्तं सुखाय मृगलोचनां दृष्ट्वा ॥ अपि च असणं चयंति दीहं ससंति विरहाणलेण उज्झति । सिविणेवि मुणिदसुहं ण लहंति णियंबिणीमूढा ॥ एतत्सर्वं मनसि कृत्वेदमाह - कः स्यात् ? न कश्चित् । किंविशिष्टः ? स्वस्थः सुखी । सर्वोपि नित्यं दुःखमेवानुभवेदित्यर्थः । कया ? मैथुनसंज्ञया । किं विशिष्टया ? बहिरङ्गाद्वृष्य भोगादित्रयादन्तरङ्गाञ्च पुंवेदोदीरणानिमित्तादुद्भूतया । उद्भूतयेति पदं सामर्थ्यलब्धमत्र योज्यम् । भोगो भोजनम् | उपयोगश्चक्षुरादिभिरनुभूयमानानां सेवनम् । भोगश्चोपयोग भोगोपयोगी । वृष्याणां कामवर्धनोद्दीपनानां भोगोपयोगी वृष्य भोगोपयोगौ, ताभ्याम् । क्षीरशर्करादीनां भोजनेन रम्योद्यानादीनां च सेवनेनेत्यर्थः । कुशीलाः ख्यादिव्यसनासक्ताः । तेषामुपासनं सेवनं तदधीनतया वृत्तिः कुशीलोपासनं, तस्मात् । अपिः समुच्चये भिन्नक्रमः । पुंवेदोदीरणाच्चेत्यर्थः । पुंसो वेदो योन्यादिरिरंसा संमोहोत्पादनिमित्तं चारित्रमोहकर्मविशेषः पुंवेदः । तस्योदीरणादुद्भवात् । पुंवेदग्रहणं चात्र पुंसो विनेयत्वेन प्रकृतत्वात् I तेन वेदसामान्यलाभात्स्त्री नपुंसक वेदावपि व्याख्येयौ । तत्र मार्दवा स्फुटत्व बहुमदनावेशनेत्रविभ्रमादिसुखपुंस्कामतादिः स्त्रीभाववेदः । तद्विपरीतः पुंभाववेदः । तदुभयमिश्रीभावो नपुंसकभाववेदः । तथा चागमः १ अशनं त्यजन्ति दीर्घ श्वसन्ति विरहानलेन दह्यन्ते । स्वपि मुनीन्द्रसुखं न लभन्ते नितम्बिनीमूढाः ॥ Jain Education International For Private & Personal Use Only · www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy