________________
चतुर्थोऽध्यायः।
भोः साधो, वृंहय प्रकर्ष नय त्वम् । किं तत् ? ब्रह्म ब्रह्मचर्यव्रतम् । किंविशिष्टः सन् ? स्त्रीषु विरक्तो निवृत्ताभिलाषः । कथंभूतो भूत्वा ? कृतार्यसङ्गतिः तपोज्ञानादिवृद्धैः सह विहितसंवासः । किं कुर्वन् ? नित्यं भावयन् मुहुश्चिन्तयन् । कानि ? कामाङ्गनासङ्गदोषाशौचानि । सङ्गः संसर्गः । प्रत्यासत्तेरङ्गनाया एव । अथवा कामाङ्गनाङ्गमासङ्गेति पठनीयम् । कामश्वाङ्गना च सङ्गश्चाङ्गनासंसर्गः । तेषां दोषा अपकारकधर्माः । कामाङ्ग. नासङ्गदोषाश्चाशौचं चाशुचित्वं तान्येवम् । तथाचोक्तम्
मातृस्वसृसुतातुल्यं दृष्ट्वा स्त्रीत्रिकरूपकम् । स्त्रीकथादिनिवृत्तिर्या ब्रह्म स्यात्तन्मतं सताम् ॥ अष्टाभिः पद्यैः कामदोषान् व्याचिख्यासुः प्रथमं तावद्योन्यादिरिरंसायाः प्रवृत्तिनिमित्तकथनपुरस्सरं तीब्रदुःखकरत्वं वक्रमणित्या प्रकाशयति
वृष्यभोगोपयोगाभ्यां कुशीलोपासनादपि ।
पुंवेदोदीरणात्स्वस्थः कः स्यान्मैथुनसंज्ञया ॥ ६४॥ मिथुनस्य स्त्रीपुंसयोः कर्म रूढिवशादतिसुखार्थ चेष्टितं मैथुनम् । तत्र संज्ञा वाञ्छा मैथुनसंज्ञा । स्त्रीपुंसयोश्चारित्रमोहोदये सति रागविशेषावि. ष्टयोः परस्परस्पर्शनं प्रतीच्छेत्यर्थः । तथा स्त्रीपुरुषयोः पुरुषयोः स्त्रियोर्वा परस्सरेणैकस्य पुंसः स्त्रिया वा यन्मैथुनाभिप्रायेण हस्ताद्यवयवसंघट्टनं तदप्यसावुपचारान्मैथुनार्थः सर्वपरिस्पन्दश्च संभोगशृङ्गार इति लोके । तथा चोक्तम्
अन्योन्यस्य सचित्तावनुभवतो नायकौ यदिद्धमुदौ ।
आलोकनवचनादि स सर्वः संभोगशृङ्गारः ॥ तस्याश्चाहारादिसंज्ञावत्तीवदुःखहेतुत्वमनुभवसिद्धमागमसिद्धं च । तथा ह्यागमः
इह जाहिं बाहिया वि य जीवा पावंति दारुणं दुक्खं । सेवंतावि य उभये ताओ चत्तारि सण्णाओ॥ १ इह याभिर्बाधिता अपि च जीवाः प्राप्नुवन्ति दारुणं दुःखम् । सेवमाना अपि च उभये ताश्चतस्रः संज्ञाः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org